गृहीते राहुणा सोम उल्कापातो भवेद्यदि ॥
षण्मासाभ्यन्तरे तत्र नगराद्भ्रश्यते नृपः ।
चन्द्रः प्रतिमुखे तिष्ठन् सग्रहो यत्र दृश्यते ॥
सर्वधान्यानि शुष्यन्ति जातं जातं विनश्यति ।
कृत्वा शस्त्रं च रोगं च अनावृष्टिस्तथैव चेत् ॥
उपद्रवश्च भूतानां भिन्ने सोमे प्रविशते ।
कस्य चित्[१] ।
पक्षाद्विपाकः सूर्यस्य सोमस्य मासिकस्तथा ।
धूमकेतोस्त्रिभिर्मासैर्विद्यात् पाकं न संशयः ॥
भूमिकम्पोऽष्टमे मासि नौभेदः पच्यते त्रिभिः ।
पक्षिकीटपतङ्गानां दशाहात् फलमादिशेत् ॥
व्यभ्रे दृष्टे भवेन्मासैर्गन्धर्वनगरे त्रिभिः ।
पुरचैत्यवृक्षभङ्गे फलं मासाद्विपच्यते ॥
"ग्रहाणां परिवेषेषु त्रिरात्रात् फलमापतेत् ।
घृततेलवसावर्षे सद्यः फलमुदाहरेत् ॥
अनग्निज्वलने चैव कष्टं फलमुदाहृतम् ।
अरिष्टं षट्सु मासेषु पच्यते हि फलं त्रिषु ॥
हिरण्यविक्रियायां तु फलं मासाद्विपच्यते ।
अचलानां च चलने षण्मासात् फलमादिशेत् ॥
मूषिकाकीटसर्पाणां मक्षिकायास्तथैव च ।
रात्राविन्द्रधनुर्दृष्ट्वा राष्ट्रे शीलविपर्ययः ॥
कबन्धशीर्षयोः सूर्ये सप्ताहात् फलमादिशेत् ।
- ↑ अत्र नामानुल्लेखात् कस्य चिति ।