पृष्ठम्:अद्भुतसागरः.djvu/७४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

 

७४३
अविरुद्धाद्भुतावर्त्तः ।

भिदर्शनं च निशि शक्रचापानामपां गाधागाधविपर्ययः प्रतिस्रोतोऽभिगमनमैचलशिखरागदृढाश्वपतनं क्षितेर्विदरणमनुप्तबीजाङ्कुरारोहणमुज्जलं कूपोदकानां शरदि सर्वताराणां दर्शनं वर्षनिग्रहः । शिशिरहेमन्तयोस्तमोनीहाररजोभिराशावरणं न प्रसादो नभसः सरितामुत्पथगमनमुपलवर्षणं विकृतदर्शनव्याहाराः सङ्घशो दर्शनमरण्यमृगाणां जनपदेषु परुषा गिरः पक्षिणामग्निप्रभामान्द्यमिति स्वभावलिङ्गानां शुभावहत्वमुक्तम् ।

तथा बार्हस्पत्यमत्स्यपुराणविष्णुधर्मोत्तरवराहसंहितासु ।

 "ऋतुःस्वभावाद्राजेन्द्र भवन्त्यद्भुतसंज्ञकाः ।
 शुभावहास्ते विज्ञेयास्ताँश्च मे गदतः शृणु ॥
 वज्राशनिमहीकम्पसन्ध्यानिर्घात निस्वनाः ।
 परिवेषरजोधूमरक्तार्कास्तमनोदयाः ॥
 द्रुमोद्भेदकरस्नेहमधुपुष्पफलोद्गमाः ।
 गोपक्षिमृगवृद्धिश्च शिवाय मधुमाधवे ॥
 तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् ।
 अनग्निज्वलनं स्फोटधूम्ररेखानिलाहतम् [१]
 रक्तपद्मारुणा सन्ध्या नभः क्षुब्धार्णवोपमम् ।
 सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥
 शक्रायुधपरीवेषविद्युदुल्काधिरोहणम् ।
 कम्पोद्वर्त्तनवकृत्यरसनं दरणं क्षितेः ॥
 नद्योदपानसरितां वृद्ध्यर्ध्वतरणप्लवाः ।
 शीर्णत्वं चाद्रिगेहानां [२]वर्षासु शुभमिष्यते ॥


  1. कृष्णश्वेतं तशा पीतं धूसरध्वान्तलोहितम् । इति मुद्रितमत्स्यपुराणे पा ।
  2. शृङ्गिणां वराहाणाम्'इति मुद्रितमत्स्यपुराणे पा. ।