पृष्ठम्:अद्भुतसागरः.djvu/७४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४२
अद्भुतसागरे ।

 अग्रतः पृष्ठतो वाऽपि ग्रहोः सूर्यावलम्बिनः ।
 यदा तदा प्रकुर्वन्ति महीमेकार्णवामित्र ॥

मयूरचित्रे ।

 पश्चिमे च दिशो भागे वैडूर्यहरितोदयम् ।
 विद्युच्चैव भवेत् तत्र वायुर्वाति स एव च ॥
 सप्तरात्रं महावृष्टिमादिशेद्दैवचिन्तकः ।

भकृतवृष्टीनां त्वेषां फलं यथाशास्त्रमूहमीयम् ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे सद्योवर्षनिमित्ताद्भुतावर्त्तः ।


अथाविरुद्धाद्भुतावर्त्तः ।

वटकणिकायाम् ।

 वृष्टिविकारोऽपांशुस्तोयविकारो हि तारकाव्यक्तिः ।
 धूम्रा दिशोऽनलश्चेद्भयदाता माधवाद्येषु ॥

पराशरेणापि ।

 ऋतुस्वभावजातानामविरुद्धमात्रमुक्तम् । तद्यथा -xx पादपरसाभिनिःस्पन्दनमभीक्ष्णशो व्याहरणं मण्डलानां xxxxनादो मृगाणां जनपदेष परुषा गिरः पक्षिणामग्निप्रभामान्यमितिस्वभावलिङ्गानां भूतानां स्याद्दवैकृतम् । तदेवान्योन्यदृश्येषु यथोक्तं भयलक्षणं बार्हस्पत्यादिषु ऋतुस्वभावजातानां शुभावहत्वमुक्तम् । तद्यथा। ऋषभाः परुषवाचोवायुसम्भवो दिशां प्रधूमनं चैत्यपादपानां सन्ध्ययो रक्ततेति । वर्षासु विविधरूपवर्णाभेन्द्रचापदण्डपरिघपरिवेषप्रतिसूर्यरश्म्युल्कानिर्घातदिग्दाहपतगगन्धर्वनगरप्रादुर्भावसम्भवश्चापि दंशमशककीटविकृतजलचराणामेकशिखिभुजङ्गमा-