पृष्ठम्:अद्भुतसागरः.djvu/७४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३८
अद्भुतसागरे ।

 बलवत्सु महद्वर्षमल्पेष्वल्पाम्बुशीकरम् ।
 मध्येषु मध्यमं ब्रूयान्निमित्तेषु निमित्तवत् ॥
 उल्कानिर्घातभूकम्पपांसुवर्षाणि केतवः ।
 अपसव्या ग्रहाश्चैते नित्यं वर्षासु वर्षदाः ॥
 प्रतिशुक्रशक्रधनुर्दण्डकाः परिवेषणम् ।
 तथैव वातमत्स्याश्च स्निग्धा ये चार्करश्मयः ॥
 विद्युतोऽभ्रविकाराश्च वाता ये च प्रदक्षिणाः ।
 सन्ध्यासु यदि दृश्यन्ते सद्योवर्षस्य लक्षणम् ॥

वटकणिकायाम् ।

 पृच्छाकाले शान्ता वारुणदिक्स्था विहङ्गा वा ।
 दर्पणलोहकलङ्को लवणस्वेदोऽतितीक्ष्णकिरणोऽर्कः ॥
 पोप्लूयन्ते मत्स्या दिश्यैशान्यां तडिच्च दिवा ।
 उत्कर्णपुच्छवदना गावस्तापोऽम्भसां पवननाशम् ॥
 अञ्जनपुञ्जश्यामा गिरयो धूमावृता [१] यदि वा ।
 जलपांशुस्नानं वा विहगानां मैथुनं भुजङ्गानाम् ॥
 वृक्षारोहणमथ वा पिपीलिकाण्डोपसंक्रान्तिः ।
 कृकवाकुशुककपोतकलविङ्गविलोचनो यदाऽर्केन्द्वोः ॥
 स्निग्धः परिवेषो वा वियदमलं वर्षणनिमित्तम् ।
 मधुसदृशः शीतांशुः प्रतिचन्द्रः शीतमारुतः पूर्वः ॥
 ऊर्ध्वाङ्कुराश्च वल्ल्यः सद्योवर्षाय कीर्त्त्यन्ते ।
 स्निग्धाः समसितरेखा यथाऽभ्रवृन्दानि कल्पितान्येव ॥
 यच्छन्त्यपो मयूखा यदि चेन्दोर्वा रवेर्दीर्घाः ।


  1. 'बाप्पावृता' इति अ, पु. पा. ।