पृष्ठम्:अद्भुतसागरः.djvu/७४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३६
अद्भुतसागरे ।

 "निर्निमित्तीकृता शान्तिर्निर्निमित्तोपजायते” [१]

मयूरचित्रे ।

 ततः शान्तिः xxxxx शान्तिः साधारणी तथा ।
 इदानीं वक्ष्यते सैव लोकानां हितकाम्यया ॥
 व्याध्यवृष्टिरिपुप्राप्तिदुर्भिक्षमरकादिषु ।
 राजपीडासु[२] चौर्येषु शान्तिस्तु प्रथमोदिता ॥
 नगरग्रामदेशेषु सोपसर्गेषु चैव हि ।
 गोऽश्वनागमनुष्येषु धनधान्यगृहेषु च ॥
 औदुम्बरीणां समिधं जुहुयाच्च शतं शतम् ।
 मधुक्षीरघृताक्तानां मन्त्रैर्मब्रगणाँस्तथा ॥
 हुत्वा शतसहस्रं तु ततः शान्तिः कृता भवेत् ।

मत्स्यपुराणे ।

"वाणप्रहारा न भवन्ति यद्वद्राजन् नृणां संहननैर्युतानाम् ।
दैवोपघाता न भवन्ति तद्वद्धर्मात्मनां शान्तिपरायणानाम्[३]

विष्णुधर्मोत्तरे एतानि वचनानि किञ्चिद्विकृतानि ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरेऽद्भुतशान्त्यद्भुतावर्त्तः ।


अथ वद्योवर्षनिमित्ताद्भुतावर्त्तः ।


भार्गवीये ।

 मत्स्यरूपे तु दृश्येते यदा चैव दिवाकरे ।
 स्फुरदिन्द्रस्तथाऽदित्यो निर्देहन्निव मेदिनीम् ॥


  1. २२८ अ. २-२८ श्लो. । अत्र बहुत्र पाठभेदाः श्लोकाश्चापि कुत्रचित् त्रुटिता उपलभ्यन्ते ।
  2. 'चाप्येका शान्तिः सुरगुरूदिता' इति च, पु, पा. ।
  3. २२८ अ. २९ श्लो. ।