पृष्ठम्:अद्भुतसागरः.djvu/७४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३४
अद्भुतसागरे ।

 अतिवृष्ट्यामनावृष्ट्यां शलभेषु भयेषु च ॥
 प्रमत्तेषु च चौरेषु वैष्णवी शान्तिरिष्यते ।
 पशूनां मरणे प्राप्ते प्रजानामपि दारुणे ॥
 भूतेषु दृश्यमानेषु रौद्री शान्तिस्तथेष्यते ।
 वेदनाशे समुत्पन्ने जने जाते च नास्तिके ।
 अपूज्यपूजने जाते ब्राह्मी शान्तिस्तथेष्यते ।
 भविष्यत्यभिषेके च परचक्रभयेषु च ॥
 स्वराष्ट्रभेदेऽरिवधे ऐन्द्री शान्तिस्तथेष्यते ।
 त्र्यहातिरिक्ते पवने रूक्षे सर्वदिगुत्थिते ॥
 वैकृते वातजे वाऽथ वायवी शान्तिरिष्यते ।
 अनावृष्टिभये जाते तथा विकृतवर्षणे ॥
 जलाशयविकारे च वारुणी शान्तिरिष्यते ।
 अभिशापभये प्राप्ते भार्गवी च तथा द्विज ॥
 जाते प्रसववैकृत्ये प्राजापत्या महीभुजा ।
 उपस्कराणां वैकृत्ये त्वाष्ट्री पार्थिवनन्दन ॥
 बालानां शान्तिकामस्य कौमारी च तथा द्विज ।
 आग्नेयीं कारयेच्छान्ति संप्राप्ते चाग्निवैकृते ॥
 कार्या मारुद्गणी शान्तिः कुशलेन महीक्षिता ।
 आज्ञाभङ्गे तु संप्राप्ते जाते भृत्यादिसंक्षये ॥
 अश्वानां शान्तिकामस्य तद्विकारे समुत्थिते ।
 अश्वानां कामयानस्य गान्धर्वी शान्तिरिष्यते ॥
 गजानां शान्तिकामस्य तद्विकारे समुत्थिते ।
 गजानां काल्यानस्य शान्तिराङ्गिरसी भवेत् ॥