पृष्ठम्:अद्भुतसागरः.djvu/७३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३३
अद्भुतशान्त्यद्भुतावर्त्तः ।

कृतानि हिसन्ति तान्येवं प्रतिगच्छन्ति व्रीहियवानग्नौ जुहुयात् । पञ्चनिधनेन वामदैव्येन नैनं कृतानि हिसन्ति तान्येव प्रतिगच्छन्ति ताम्रवररजतहेममयीं मुद्रां कारयित्वा 'द्वाते जातमंहसः' [१]इति चतुर्थे मासि जुहुयात् । सहस्रकृत्वः शतवारं वा तां मुद्रां दक्षिणपाणिना धारयेत् नैनं कृतानि हिसन्ति तान्येव प्रतिगच्छन्ति ।

इति महाराजाधिराजनिःशङ्कशङ्कर श्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे मिश्रकाद्भुतावर्त्तः ।

अथाद्भुतशान्त्यद्भुतावर्त्तः।

मत्स्यपुराणे ।
मत्स्य उवाच ।

 अथातः संप्रवक्ष्यामि त्रिविधामन्तादिषु ।
 विशेषेण तु भौमेषु शान्ति कार्याऽमृता भवेत् ॥
 अभया नान्तरिक्षेषु सौम्या दिव्येषु पार्थिव ।
 विजिगीषुः परं राजन् भूमिकामश्च यो भवेत् ॥
 आरोग्यधनकामश्च सोऽमृतां कारयेत् सदा ।
 विजीगीषुः परं परानेवमभियुक्तस्तथा परैः ॥
 तथाऽभिचारशङ्कायां शत्रूणामपि घातने ।
 भये महति संप्राप्ते अभया शान्तिरिष्यते ॥
 राजयक्ष्माभिभूतस्य क्षतक्षीणस्य चाप्यथ ।
 भूकम्पे तु रामुत्पने प्राप्ते चान्नक्षये तथा ॥
 सौम्या प्रशस्यते शान्तिर्यज्ञे कामस्य चाप्यय ।


  1. मोपलभ्यते कुत्र चिदन्यत्रायं मन्त्रोऽन्वेषणीयः ।