पृष्ठम्:अद्भुतसागरः.djvu/७३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२७
मिश्रकाद्भुतावर्त्तः ।

लति अहतवासांसि दह्यन्ते शस्त्रं ज्वलति देवाः प्रहसन्ति प्रकम्पन्ते धूमायन्ते प्रकीडन्ते प्रज्वलन्ति रुधिरं प्रस्रवन्ति अन्ये वा अग्निप्रकारा दृश्यन्ते इत्येतान्यग्निदेवताकान्यद्भुतानि दृष्ट्वा परचक्रागमं विद्यात् ।

 आग्नेयस्थालीपाकं श्रपयित्वा- अग्नये स्वाहा । अग्निरिदं शमयतु स्वाहा । भूताधिपतये स्वाहा ।

 अग्निर्मूर्धा[१]- इति द्वे हुत्वा सावित्र्या त्रिरुपविष्टादाज्येन जुहुयात् । अपामार्गसमिधामयुतं जुहुयात् ।

 वैश्वानरो[२] -इति मन्त्रेण दक्षिणां गां सुवर्णं धान्यं रजतं दद्यात् ततः संपद्यते शुभतिति ।

 या अन्तरीक्षमन्वावर्त्तते सा वायुमन्वावर्त्तते । यत्र वेश्मनि प्रासादे शालायां वृक्षे नगरे ग्राममध्येऽपि वाऽशनिः पतति । निर्घातः पतति भूमिकम्पो भवत्यभीक्ष्णं तीव्रो वातो वहति दिग्दाहो भवति दक्षिणेतरं चक्षुः स्पन्दते स्त्रियो गावोऽतिप्रसूता अप्रसूता विपसेतप्रसवा वा भवन्ति अन्ये वा एवं प्रकारा दृश्यन्ते एतानि वायुदेवताकान्यद्भुतानि दृष्ट्वा स्थानत्यागं विनिर्दिशेत् ।

 वायव्यस्थालीपाकं श्रपयित्वा-वायवे स्वाहा । वायुरिदं शमयत स्वाहा ।

 वातस्य जूतिं[३] -इति मन्त्रेण स्थालीपाकस्य द्वे दुत्वा सावित्र्या त्रिरुपरिष्टादाज्येन जुहुयात् ।

 सुमनसामयुतं जुहुयात् । वायुरग्रे गा [४] -इति मन्त्रेण धान्यं सुवर्णं दक्षिणां दद्यात् ततः संपद्यते शुभमिति ।


  1. वाजसनेयिसंहितायाम्. ३ अ, १२ क ।
  2. वाजसनेविसंहितायांम् १८ अ ७२ क ।
  3. वाजसने यिसंहितायाम् १३ अ ४२ क ।
  4. वाजसनेविसंहितायाम् २७ अ, ३१ क. ।