पृष्ठम्:अद्भुतसागरः.djvu/७३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२८
अद्भुतसागरे ।

 या दिवमन्वावर्त्तते सा सूर्यमन्वावर्त्तते । यत्र रुधिरास्थिशिरोबालमांसासृक्पांप्तुकर्दमपूयास्थां तु वृष्टयो भवन्ति । दिवोल्कापातः । अपर्वणि राहुदर्शनम् । आदित्ये छिद्रं दृश्यते । दिवा तारका दृश्यन्ते आदित्ये कबन्धो दृश्यते । अदित्ये केतुर्दृश्यते । अनाभ्रा वृष्टिदृश्यते । नक्तमिन्द्रधनुश्चतुर्विक्षु दृश्यते । अन्यानि बहूनि दिव्यान्युत्पातानि दृश्यन्ते । तेषु नरपतेर्वधमादिशेत् ।

 सौर्य स्थालीपाकं श्रपयित्वा-सूर्याय स्वाहा । सूर्य इदं शमतु स्वाहा ।

परमात्मने स्वाहा । उदुत्यम्-चित्रम्[१]इति द्वे हुत्वा सावित्र्या त्रिरुपरिष्टादाज्येन जुहुयात् ।

 आकृष्णेन -इति मन्त्रेण प्रभूतान्नकनकधान्यमहीदक्षिणादानैः संपद्यते शुभमिति ।

 अविज्ञाताद्भुतदर्शने पयोघृतादिभिर्दोषशान्तये प्राजापत्यवैष्णवरौद्रस्थालीपाकं श्रपयित्वा- प्रजापतये स्वाहा ।

 विष्णोरराटमसि[२] एष ते रुद्र[३]-इति यथासंण्यमहाव्याहृतिभिश्च सर्वेष्वद्भुतेषु जुहुयात् ।

 काण्डात् काण्डात् प्ररोहन्ति[४] -इति मन्त्रेण अनड्वाहं रजतं ताम्रं दक्षिणां दद्यात् । ततः सम्पद्यते शुभमिति ।

 दिव्यान्तरीक्षभौमानामद्भुतदर्शने दोषप्रशान्तये ग्रहशान्तिं प्रयोजयेत् । ततः संपद्यते शुभमति ।

 शान्तिः षड्विंशब्राह्मणे[५]

 अथातोऽद्भुतानां कर्मणां शान्तिं व्याख्यास्यामः । पलशानां समिधामष्टसहस्रेण जुहुयादैन्द्रयाम्यवरुणधनदाग्नेयवायव्यसौम्यवैष्णवेष्वष्टस्वादौ- इन्द्रायेन्दो मरुत्वते नाके सुपर्णमनुपर्यन्तं घृतवती


  1. वाजसनेविसंहितायाम् ७ अ. ४१-४२ क. ।
  2. वाजसनेविसंहितायाम् ५ अ. २१ क. ।
  3. वाजनेयिसंहितायाम् ३ अ ५७क. ।
  4. वाजसनेयिसंहितायाम् १३ अ. २० क. ।
  5. अस्य मूलग्रन्थानुलब्धेर्यायातथ्यमेव रक्षितम् ।