पृष्ठम्:अद्भुतसागरः.djvu/७३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२६
अद्भुतसागरे ।

 उदुत्तमं वरुणपाशम-[१]इति द्वे हुत्वा सावित्र्या त्रिरुपरिष्टाराज्येन जुहुयात् । न्यग्रोधसमिधामयुतं जुहुयात् ।

 वरुणस्योत्तम्भनमसि-[२]इति मन्त्रेण त्रिप्रकारां दक्षिणां दद्यात् । भूमि हिरण्यं धान्यं चेति ततः संपद्यते शुभमिति ।

 या उत्तरां दिशमन्वावर्त्तते सा सोममन्वावर्त्तते । यत्रौषधयोऽपक्रुष्टसलिलाः पच्यन्ते व्रीहयः स्विन्नाः प्ररोहन्ति तण्डुलाः स्कटन्ति सुवर्णमन्यवर्णं भवति असलिलाः प्रपाः पूर्यन्ते मृता मानवा दृश्यन्ते पद्मा युग्मा जायन्ते स्थले पद्मा जायन्ते नदीकूपवापीतडागास्तरङ्गवन्त उद्गिरन्ति शुष्यन्ति वा नद्यः प्रतिकूला वहन्ति रुधिरं प्रस्रवन्ति अन्यवर्णा वा भवन्ति शिलाः प्रवहन्ति गिरयः शीर्यन्ते धान्यकुशूलान्युदकं वहन्ति गृहेषु छत्रिका जायन्ते मानाः कन्दाश्च पुष्पन्ति इत्येतानि सोमदेवताकान्यद्भुतानि दृष्ट्वा देशोपद्रवमादिशेत् ।

 सौम्यस्थालीपाकं श्रपयित्वा- सोमाय स्वाहा। सोम इदं शमयतु स्वाहा । चन्द्रमसे स्वाहा ।

 आप्यायस्व समेतु ते[३] -इति द्वे हुत्वा सावित्र्या त्रिरुपरिष्टादाज्येन जुहोति । पलाशसमिधामयुतं जुहुयात् ।

 एष वः कुररो राजा[४] - इति मन्त्रेण हिरण्यं वासः शङ्खं धेनुं च दक्षिणां दद्यात् । ततः संपद्यते शुभमिति ।

 या पृथिवीमन्त्रावर्त्तते साऽग्निमन्वावर्त्तते । यत्र हिरण्यनाशो भवति । अङ्गारदाहो भवति भूमावग्निर्ज्वलति । दिशो दह्यन्ते कुटुम्बक्षयो भवति शालामण्डपदेवकुलानां दाहो भवति अनग्निर्ज्व-


  1. वाजसनेयिसंहितायाम् १२अ. १२ क. ।
  2. वाजसनेयिसंहितायाम् ४ अ. १३ क. ।
  3. वाजसनेयिसंहितायाम् १२ अ. ११२ क. ।
  4. वाजसनेयसंहितातिरिको मन्त्रोऽयमन्वेषणीयम् ।