पृष्ठम्:अद्भुतसागरः.djvu/७२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२३
मिश्रकाद्भुतावर्तः।

 भूधराणां प्रकम्पस्तु देवतायतनेऽपि वा ।
 राजद्वारे पुरद्वारे भैरवं तु नदेच्छिवा ॥
 शवोऽप्युत्थाय निपतेद्वकारोऽन्यश्च दृश्यते ।
 अन्यवृक्षाश्च दृश्यन्ते नानात्वं फलपुष्पयोः ॥
 अपुष्पाः पुष्पयुक्ताश्चाश्वानडाहश्च पुष्पिताः ।
 दिवोल्कादर्शनं वाता अद्भुतं सुमहद्भवेत् ॥
 राह्वद्भुतं विजानीयाद्रविवारेण वा पुनः ।
 पूर्वोक्तेन विधानेन स्वर्णकुम्भजलैस्तथा ॥
 रात्रौ धनुं सुवर्णं च दद्याद्विप्राय दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 रुधिरादि स्रवेद्वृक्षे भङ्गे प्रपतनेऽपि वा ।
 काञ्जिकोद्गिरतेऽकस्मान्नर्दते सज्ज्यतेऽपि वा ॥
 भद्रासनं च शयनमकस्माद्भिद्यतेऽपि वा ।
 राजद्वारे पुरद्वारे केतुर्वा रवते भृशम् ॥
 केत्वद्भुतं विजानीयाद्रविवारेण पूजयेत् ।
 कुशान् मन्त्रैस्तु जुहुयाद् दधिमधुघृतान्वितान् ॥
 कृष्णा गावः सुवर्णं च वस्त्रं दासीं च दक्षिणाम् ।
 सर्वे पापाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 ब्राह्मणा वेदसम्पन्ना ब्रह्मकर्मसमन्विताः ।
 उपोष्य रात्रिमेकां तु कर्म कुर्युर्यथाविधि ॥

कठश्रुतिस्तु ।

 या पूर्वादिशमन्वावर्त्तते सा इन्द्रमन्वावर्त्तते । यत्र कन्या प्रसूयते धेनुर्धेनुं पिबति अतड्वाहं धेनुर्वा पिबति वत्सतरीं गौः ।