पृष्ठम्:अद्भुतसागरः.djvu/७३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२४
अद्भुतसागरे ।

 पिबति वृषभावन्योन्यं पिबतो गौर्लोहितं दुह्यते अजा दुह्यते महिषी दुह्यते दुह्यमानाश्च प्रसूयन्ते गात्राणि चासां शुष्यन्ति यमसूर्जायते शस्यानि वेपन्ते शस्यान्यतीव रोहन्ति । कन्यकाः पशुमानुषा विकृतरूपा जायन्ते अन्योन्यं पुरुषाः संक्षोभं गच्छन्ति ध्वजाः पताकाः गच्छन्ति गजतुरगाः शीर्यन्ते विकृरूपा जायन्ते च। रात्रौ विकृताभ्रायामिन्द्रधनुर्दृश्यते । अमानुषा मानुषवद्वदन्ति देवकुलानि नर्दन्ति श्वेतकाका दृश्यन्ते इत्येतानीन्द्रदेवताकान्यद्भुतानि दृष्ट्वा महद्भयमुत्पद्यते।

 इन्द्रस्थालीपाकं श्रपयित्वा-इन्द्राय स्वाहा । इन्द्र इदं शमय तु स्वाहा । शतक्रतवे स्वाहा ।

 आ तू न इन्द्र-[१]इति स्थालीपाकम्य द्वे हुत्वा सावित्र्या त्रिरुपरिष्टाद्वयेन जुहुयात् ।

 त्रातारमिन्द्रम्-[२]इति अनेन मन्त्रेण धेनुं सुवर्णै वस्त्रं रत्नं च दक्षिणां दद्यात् ततः संपद्यते शुभमिति ।

 या दक्षिणां दिशमन्वावर्त्तते सा यममन्वावर्त्तते यत्र वैश्मन्युलूकश्येनबलाकाकपोतक्रौञ्चगृध्राः पतन्ति अस्थीनि गृहीत्वा वायसा अन्ये पक्षिणो वा गृहं प्रविशन्ति नरशिरसि गृध्राः पतन्ति अन्ये वा काकश्येनादयः पतन्ति षड्भिर्मासैः संवत्सरेण वा ते नश्यन्ति । सर्पः प्रविशति स्त्री स्त्रियं हन्ति गोधा प्रविशति आरण्याः पशवो हर्म्ये प्रविशन्ति क्षोभन्ते वा । रथो भिद्यते वृषौ वा युग्ययुक्तौ गृहं प्रविशतश्चक्रमूर्ध्वमुद्वमति मुशलं वा ईतिजाव्यापदो भवन्ति कुले सततं कलिर्भवति बालका बहवो नश्यन्ति


  1. वाजसने यिसंहितायाम् ३३ अ. ६५ क ।
  2. बाजसनेयिसंहितायाम् २० अ. ५० क ।