पृष्ठम्:अद्भुतसागरः.djvu/७२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७२०
अद्भुतसागरे

 महाशान्तिं प्रयुञ्जीत सर्वोपद्रवनाशनीम् ॥
 सर्वरोगप्रशमनीं सर्वापद्विनिवारिणीम् ।
 रौद्रीं कुर्यान्महाशान्तिं श्रद्धया बहुदक्षिणाम् ॥

कङ्काद्यद्भुतं आथर्वणाद्भुते ।

 काकोलूकवका गृध्रा हंसाः श्येनाः कपोतकाः ।
 गृहे रथे ध्वजे वाऽपि पतन्त्येतेऽप्यकारणात् ॥
 उत्पन्ना मधुवल्मीकवरटाच्छत्रिका तथा ।
 उत्पाट्यतेऽयथाकाले तद्विद्याद्भुतं महत् ॥
 मानुषाणां एतेद्द्गेहे काकी द्वारि कटायते ।
 स्थूणा प्ररोहते यत्र अद्भुतं च महद्भवेत् ॥
 असिराजीवतप्तं तु द्वित्र्यनेकशिरस्तथा ।
 संहताश्चैव युज्यन्ते जातमात्रा हसन्ति च ॥
 अजा गावो महिष्यश्च[१] दह्यमाना स्रवेदसृक् ।
 सूर्याद्भुतं विजानीयात् पूजयित्वा दिवाकरम् ॥
 दध्याज्यमधुसंयुक्तसमिधस्त्वर्कसंभवाः ।
 मब्रिराजप्रभृतिभिर्जुहुयादाज्यमेव च ॥
 सुवर्णसहितां गां च दद्याद्धोत्रे च दक्षिणाम् ।
 सर्वे दोषाः प्रणश्यन्ति ततः संपद्यते शुभम् ॥
 सिंहासनं रथं छत्रं चामरं ध्वजमेव च ।
 अकस्माद्भङ्गमाप्नोति विना वातादिदूषणैः ॥
 अनारोहणको राजा पतेत् सिंहासनादपि ।
 वाहना यत्र उद्यन्ते भूमौ विशति कोकिलः ॥


  1. एतासां का विदेकेति शेषः ।