पृष्ठम्:अद्भुतसागरः.djvu/७१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१०
अद्भुतसागरे

 “तुमुलाश्च ववुर्वाता जज्वलुर्न च पावकाः ॥
 प्रतिस्रोतो ययुर्नद्यो दिशश्चैव प्रधूमिताः ।
 उल्काः पतेयुरुद्धूता निर्घाताश्च पतन्त्युत"[१]

स्कन्दपुराणे हिरण्याक्षवधनिमित्तम् ।

 सिद्धाः पेतुरथादित्यादृेवाश्च भयमाविशन् ।
 सागराश्च चुक्षुभिरे विरेजुर्नगपक्षिणः ॥
 भयत्रस्तानि भूतानि उल्का: पेतुर्नभस्तलात् ।

मौशले वृष्णिक्षयनिमित्तम् ।

 "प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः”[२]

भागवते कृष्णोत्क्रान्तिनिमित्तम् ।

 "धूमा दीप्ताः सपरिघाः कम्पते भूस्तलादिभिः ।
 निर्घातस्तु महाँस्तात साकं च स्तनयित्नुभिः ॥
 सभूतलं भूतगणैर्ज्वलिते इव रोदसी"[३]

सभापर्वणि पाण्डववनप्रवेशे कुरुक्षयनिमित्तम् ।

 "अनभ्रे विद्युतश्चासन् भूमिश्च समकम्पयत्"[४]

उद्योगपर्वणि भीष्माभिषेके भीष्मवधनिमित्तम् ।

 “निर्घाताः पृथ्वीकम्पो गजबृंहितनिस्वनाः ।
 आसँश्च सर्वयोधानां पातयन्तो मनांस्युत ॥
 वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे”[५]

मयूरचित्रे ।

 गोधा च नकुलश्चैव सर्पो वनपशुस्तथा ।
 विशन्ति भवने यत्र युध्यन्ति वृषभास्तथा ॥
 बालाश्चैव विनश्यन्ति वृष्टिः सिन्दूरवर्णवत् ।


  1. कुत्रत्योऽयं सार्धश्लोक इति नोल्लेखः ।
  2. १ अ. ३ श्लो. ।
  3. श्रीमद्भागवते उक्तस्थले नोपलभ्यते ।
  4. ८० अ. २८ श्लो. ।
  5. १५६ अ, २९-३० श्लो. ।