गावः प्रसुवते भाद्रे हस्तिन्याः कटकोऽपि वा ॥
बालः फलति वृक्षो वा फलं बध्नाति चाप्यसौ ।
रुदन्ति वृक्षा भयतो वारुणं साधयेच्चरुम् ॥
वरुणाय स्वाहा । वरुण इदं शमयतु स्वाहा । अद्भ्यः स्वाहा
उदुत्तमं वेति ऋचा सावित्र्या च घृताहुतीः ।
यथार्हं दक्षिणां दद्यात् ततः शान्तिः प्रपद्यते ॥
तथा ।
कुमुदोत्पलपत्रं च नदीस्त्रोत्रसि जायते ।
कृत्तवृक्षाश्च यूपाय क्लेदं मुञ्चन्ति नाक्षताः ॥
अताडिताः पतन्त्येते छिन्नभिन्नप्ररोहणाः ।
पूयशोणितगन्धाश्च देशविद्रवकारणम् ॥
जनक्षयकराश्चैव राजामात्यस्य विभ्रमः ।
पुरोहितवधार्थं न शान्तिराङ्गिरसो मता ॥
वानस्पत्येन मन्त्रेण ब्रह्मचारी जितेन्द्रियः ।
त्रिरात्रोपोषितो भूत्वा हविष्याशी पुरोहितः ॥
उदुम्बराणां समिधां सहस्रं जुहुयाच्छुचिः ।
अष्टोत्तरं द्विजेभ्यश्च भूर्देया भूरिदक्षिणा ॥
क्षीरशान्तिश्च कर्त्तव्या परमान्नं च भोजयेत् ।
अथ नाभमभौममिश्रकाः । आग्नेय पुराणे वामनोत्पत्तौ ।
ववुर्वाताः सुखस्पर्शाः सुनिर्मलमभून्नभः ।
धर्मे च सर्वे भूतानां तदा मतिरजायत ।
नोद्वेगता भवेद्देहे कस्य चिन्नारतिस्तथा ।
बार्हस्पत्ये ।
चैत्यद्रुमाणां रुधिरप्रसेकाः कबन्धरूपाश्च घना भवन्ति ।
रक्ता च सन्ध्या रुधिरप्रदिग्धा भयानि राज्ञः परिवेदयन्ति ॥