पृष्ठम्:अद्भुतसागरः.djvu/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
अद्भुतसागरे

गर्गः ।

 पाण्डुवर्णैः शशी मध्ये सुभिक्षक्षेमकारकः ।

गार्गीयेऽपि ।

 सुवर्णाभो वस्त्रवृद्धिः ।

हरिवंशे हिरण्यकशिपुवधनिमित्तम् ।

 "विवर्णत्वं च भगवान् गतो निशि निशाकरः” [१]

पराशरः ।

भस्मारुणवह्निताम्रपीतपाण्डुनीलरूक्षवर्णैः क्षुद्वैरकरः ।

वृद्धगर्गसंहितागार्गीयभार्गवीयेषु ।

 मञ्जिष्ठारुणवर्णो वा ज्वरं तीव्रं निवेदयेत ।

वृद्धगर्गसंहियां गार्गीये च ।

 लोहिते कुप्यते शस्त्रं दुर्भिक्षं चोपजायते ।
 कपिले कृप्यति त्वग्निरक्षिरोगश्च जायते ॥
 कृष्णवर्णो गवां हर्त्ता दुर्भिक्षस्य च कारकः ।
 नानाविधैर्व्याधिभिश्च तदा संपीडयते प्रजा ॥
 हरितः सर्वशस्यानामुपद्रवकरः स्मृतः ।

वृद्धगर्ग: ।

 हरितोऽपीतये विद्यात् पशूनां चाप्युपद्रम्

तत्रैव ।

 कृष्णे शरोरे सोमस्य शूद्राणां वधमादिशेत् ।
 पीते शरीरे सोमस्य वैश्यानां वधमादिशेत् ||
 रक्त शरीरे सोमस्य राज्ञां च वधमादिशेत् ।

राज्ञां क्षत्रियाणाम् ।


  1. ४६ अ. ९ श्लो. । तत्र 'गतो दिवि दिवाकरः' इत्युपलभ्यते ।