पृष्ठम्:अद्भुतसागरः.djvu/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१
सूर्याद्भुतावर्त्तः ।

 शालियवौषधिगोधूमसोमपाक्रन्दविप्राणाम् ॥
 सितसुभगतुरगरतिकरयुवतिचमूनाथभोज्य[१]विप्राणाम् ।
 शृङ्गिनिशाचरकार्षकयज्ञविदां चाधिपश्चन्द्रः ॥

अथाशुभसूचकचन्द्रलक्षणम् ।
पराशरः ।
 खण्डः स्फटितो विवर्णो। वेपनोऽशशाङ्कश्चन्द्रमाः प्रजानाशाय राज्योपप्लवाय च
इति ।
अशशाङ्क इति लक्ष्मरहितः ।
भीष्मपर्वणि कुरुपाण्डवक्षयनिमित्तम् ।

 "अलक्ष्य प्रभया हीनः पौर्णमासीं न कार्त्तिकीम् ।
 चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णे नभस्तले"[२]

वराहसंहितायाम् ।

भस्मनिभः परुषोऽरुणमूर्त्तिः शीतकरः किरणैः परिहीनः ।
श्यावतनुः स्फुटितः स्फुरणो वःक्षुड्डमरामयश्चौरभयाय ॥

डमर उपप्लवः ।
बृद्धगर्ग:

 विलग्नमध्यो नीलाभो वज्रसंस्थानसंस्थितः ।
 मध्यच्छिद्रो विलीनाभो भयं कारयते महत् ॥

अथ वर्णफलं भार्गवीये ।

 शुक्ले शरीरे सोमस्य ब्रह्मवृद्धिं विनिर्दिशेत् ।

गर्गस्तु ।

 शुक्लः स्निग्धः प्रसन्नश्च क्षेमवर्षकरः शशी ।

वृद्धगर्गस्तु ।

 दधिशङ्खसवर्णस्तु मुक्ताराशिनिभोऽमलः ।
 भ्राजिष्णुरतिसुस्निग्धः क्षेमारोग्यकरः शशी ॥


  1. वस्त्राणाम् इति अ. ।
  2. २ अ: २३ श्लो. ।