पृष्ठम्:अद्भुतसागरः.djvu/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
अद्भुतसागरे

तथा वराहसंहितायाम् ।

यदि कुमुदमृडालहारगौरस्तिथिनियमात् क्षयमेति वर्धते वा ।
अविकृतगतिमण्डलांशुयोगी भवति नृणां विजयाय शीतरश्मिः ॥
स्निग्धः स्थूलः समशृङ्गो विशालस्तुङ्गश्चोदग्विचरन् नागवीथ्याम् ।
दृष्टः सौम्यैरशुभैर्विप्रयुक्तो लोकानन्दं कुरुतेऽतीव चन्द्रः ॥

अत्रैव समागमे नागवीथीं वक्ष्यामः । येषामयं स्वामी तेषामेवम्भूतो विशेषेणाभ्युददयाय । विपरीतो विशेषेण विपरीताय ।
चन्द्रस्वामिकान्याह यवनेश्वरः ।

स्त्रीचित्तनिद्रारतिभक्ष्यपेयःशीतद्रवस्वादुरसौषधीनाम्
स्रग्वस्त्रभूषामणिमौक्तिकानां प्रभुः शशाङ्गो लवणाम्बुजानाम् ॥

काश्यपश्च ।

 पर्वता जलदुर्गाश्च कोशलाः पुङ्गणा हलाः ।
 स्त्रीराज्यं [१]तरु[२] कर्काद्यास्तुषारा वनवासिनः ॥
 मौक्तिका मणिशङ्खाब्जमौषधीः कुसुमं फलम् ।
 द्वीपा महार्णवीयाश्च मधुरा लवणादयः ॥
 गोधूमाः शालयः शृङ्गिकर्षकाश्च यवा अपि ।
 सोमपब्राह्मणानां च याज्ञिकास्तुरगा रसः ॥
 स्त्रीसौभाग्यविविक्तानि हास्यलास्येक्षितानि च ।
 एतेषामधिपश्चन्द्रो हृष्टानां च प्रकीर्त्तितः ॥

वराहसंहितायाम् ।

गिरिसलिलदुर्गकोशलभरुकच्छसमुद्ररोमकतुषाराः ।
वनवासितङ्गणहलस्त्रीराज्यमहार्णवद्वीपाः ॥

मधुररसकुसुमफललवणसलिलमणिशङ्गमौक्तिकाब्जानाम् ।


  1. भरुकच्छब्ध इति अ ।
  2. कच्छाद्या इति ख ।