पृष्ठम्:अद्भुतसागरः.djvu/७०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०२
अद्भुतसागरे

 दिग्दाहपरिवेषौ च गन्धर्वनगरं तथा ।
 परचक्रभयं विद्यादेशोपद्रवमेव च "[१]

स्कन्दपुराणे ।

 ततः सर्वा दिशो व्याप्ता वह्निकुण्डनिभा भुवि ।
 शब्दश्च सुमहानासीयुगान्ताम्बुदसंनिभः ॥

गदावर्वणिदुर्योधनवधनिमित्तम्।

 “जज्ञे घोरतरः शब्दो बहूनां सर्वतो दिशम्"[२] । ।

भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "रजश्वोद्धूयत महत् तम आच्छादयज्जगत्"[३]

मयूरचित्रे ।

 प्रसादे भवने क्षेत्रे ग्राममध्ये तथा गवि ।
 निर्घातोऽशनिरुल्का च पतन्ति यदि सन्ध्ययोः ॥
 रात्रौ शक्रधनुर्व्याम्नि भूपदेशक्षयावहः ।
 विश्वावर्त्तीति वायुश्च तीव्रो वा ग्रह एव च ॥
 पतेदुल्का तथा तस्मिन् वायव्यः पच्यते चरुः ।
 अप्रसूतौ प्रसूतानां स्त्रीणां यः स्मर्यते बुधैः ॥
 उल्कापाते सदिग्दाहे दिशां दाहे यथाक्रमम् ।
 प्रवर्त्तिते तु संग्रामे रोगोपद्रव एव च ॥

दिशां दाह इति सकल दिग्दाहपरम् ।

 शान्तिमत्र प्रवक्ष्यामि सर्वोत्पात निवर्हणीम् ।
 इमा रुद्रेति मन्त्रेण समिधः कनकस्य तु ॥
 अष्टोत्तरसहस्रं तु घृताक्ता जुहुयाच्छुचिः ।
 रुद्रैकादशकं जप्यं माहिषो बलिरेव च ॥


  1. २३३ अ. ७-८ श्लो. ।
  2. ५८ अ ५४ श्लो.
  3. १९ अ. ३७ श्लो. ।