पृष्ठम्:अद्भुतसागरः.djvu/७०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०३
मिश्रकाद्भुतावर्त्तः ।

 कुर्याच्छिवोत्सवं चैव भूमिदोहसमं ततः ।
 ग्रामे वा नगरे चैव गोष्ठे च शिवसंनिधौ ॥
 शान्तिकर्माणि कुर्वीत नृपादेशो द्विजातिकः ।
 चरुः कार्योऽशनं तस्य पूजयित्वा द्विजाँस्तथा ॥
 पायसं मधुसंयुक्तं दधिसर्पिःपयोयुतम् ।
 शतमष्टाधिकं चैव जपेद्रुद्रं समाहितः ॥
 सुवर्णं रजतं कांस्यं मणिरत्नविभूषितम् ।
 ब्राह्मणाय तथा दद्याद्द्रतान्ते चैव मेदिनीम् ॥
 अङ्गारवृष्ट्यां दिग्दाहे महाभयमुदाहरेत् ।
 अप्रसूतौ तु या प्रोक्ता वायव्यः पच्यते चरुः ॥
 वज्रोल्कापतनविद्युद्दिग्दाहाः प्रभवन्ति चेत् ।
 श्वेताः पीतास्तथा रक्ताः कृष्णा विप्रादिनाशनाः ॥
 श्यामा रुक्षास्तथा ध्वस्ताः शस्यपीडावहाः स्मृताः ।
 लाङ्गूलाकृतयस्तास्तु शिखिकण्ठसमत्विषः ॥
 अमात्यान् नैगमाँश्चैव घ्नन्ति वै कर्षकाँस्तथा ।
 एषा साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।
 निर्घातश्चाशनिर्घोरा दिग्दाहश्चैव नित्यशः ।
 देशभ्रंशाय बोद्धव्याः पराभूत्यै नृपस्य च ॥
 अत्र साधारणी शान्तिः कर्त्तव्या गर्गभाषिता ।

अथ भौममिश्रकाः । तत्र पराशरः ।
 चैत्यप्रसादतोरणशिखरिशिखराद्रीणामकस्मात् प्रपतनं देवध्वजेन्द्रष्टयक्षितिपातः पत्रच्छेदनमवनिपतेर्विनाशाय ।