पृष्ठम्:अद्भुतसागरः.djvu/७०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०१
मिश्रकाद्भुतावर्त्तः ।

मयूरचित्रे ।

 आदित्ये छिद्रमालोक्य दिवोल्कपातदर्शनम् ।
 अपर्वराहुग्रहणे कुर्यात् सौर्यं चरुं द्विजः ॥

अथ नाभसकमिश्रको बार्हस्पत्ये ।

द्यौः स्याद्यदा नष्टदिवाकरप्रभा सरेणुवर्षा द्विजधूमदर्शनाः ।
तथाऽतिरौद्रा ज्वलिताग्निसप्रभा न तत्र वासं विषये विदध्युः ॥

तथा ।

 अनस्ततानतं यत्र नभो गुलगुलायते ।
 क्षिप्रं तद्रवते राष्ट्रं दश वर्षाणि पञ्च च ॥

हरिवंशमत्स्यपुराणपद्मपुराणेषु तारकासुरयुद्धे देवपराजय निमित्तम् ।

 “दीप्ततोयाशनीपातैर्वज्रवेगानिलाकुलैः ।
 ररास घौरैरुत्पातैर्दह्यमानमिवाम्बरम्”[१]

बार्हस्पत्ये ।

 अनभ्रे पतते विद्युदशनिर्वा घनैर्विना ।
 अनभ्रे वा भवेद्वर्षं राजा राष्ट्रं च नश्यति ॥

उद्योगपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।

 "अनभ्रेऽशनिनिर्घोषः सविद्युत् समजायत ।
 विपरीता दिशः सर्वा न प्राज्ञायत किञ्चन"[२]

मत्स्यपुराणे ।

 "अनभ्रे वा तथा रात्रौ श्वेतं याम्योत्तरेण तु ।
 इन्द्रायुधं ततो दृष्ट्वा चोल्कापातं तथैव च" ॥


  1. ५ हरिवंशे वंशपर्वणि ४२ अ. १श्लो. । पाद्मे २७ अ. १३० श्लो ।
    तत्र 'दीप्ततोयाः सनिर्घातैः सह वज्रानलानिलैः ।
    रवैः सुथोरैरुत्पातैर्दह्यमानमिवाम्बरम्' इति पाठः ॥
  2. ८४ अ. ५-६ श्लो. ।