पृष्ठम्:अद्भुतसागरः.djvu/७०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७००
अद्भुतसागरे

 त्रिशङ्कुं च ध्रुवं चैव भ्रमन्तश्चक्रवद्यदि ॥
 ऋषयो व्योम्नि दृश्यन्ते तदा युद्धमहद्भयम् ।

अयोध्याकाण्डे दशरथमरणनिमित्तम् ।

 "बृहस्पतिर्बुधः केतुः सौराङ्गारकभार्गवाः ।
 दारुणाः समपद्यन्त ग्रहाः सर्वे प्रदक्षिणाः ॥
 नक्षत्राणि हता भान्ति ग्रहाश्चोपहतानि च ।
 विशिखाश्च विधूमाश्च नभसि प्रचकाशिरे”[१]

भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 "ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षयम् ।
 अहोरात्रं मया दृष्टं तद्भयाय भविष्यति"[२]

तथा ।

 "प्रदीप्यमानाः संपेतुर्दिवि सप्त महाग्रहाः"[३]

अथ दिव्यनाभसमिश्रकाः । तत्र पराशरः ।
 तत्र राहोरदर्शनं केतोश्च मघासु च वक्रातिपीडनं ब्रह्मराशिभेदः केतूल्काग्रहभेदश्न रोहिणीनां सौरेण सप्तर्षिध्रुवेन्दु पीडनं केतोर्वा मरकदर्भिक्षशस्त्रवृष्टिभिः प्रजाक्षयाय ।
भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः"[४]

भार्गवीये ।

 वित्रर्णे परिघे वाऽपि त्रिवर्णे वा वलाहके ।
 उदयास्तमनं कुर्याद्यदि सूर्यः कदाचन ॥
 पृथिव्यां राजवंश्यानां महद्भयमुपस्थितम् ।
 लोकक्षयकरं विद्याद्यदि देवो न वर्षति ॥


  1. उक्तस्थले वाल्मीकीये नोपलभ्यते ।
  2. १७ अ. २ श्लो. ।
  3. ११२ अ. २ श्लो. ।
  4. २ अ २२ लो ।