वसन्तराजस्तु ।
इदं त्विहोत्पातयुगं पृथिव्यां महाभयं शाकुनिका वदन्ति ।
यद्वायसौ मैथुनसन्निविष्टो दृश्येत यद्वा धवलः कदा चित् ॥
उद्वेगविद्वेषभयप्रवासबन्धुक्षयव्याधिधनापहाराः ।
वृद्धिक्षयो व्याकुलता नराणां शीघ्रं भवेदद्भुतदर्शनेऽस्मिन् ॥
शमाय तत्सूचितदुःखराशेः स्नानं बहिस्तत्क्षणमेव कुर्यात् ।
आत्मीयशक्त्या च सदक्षिणाभिर्द्विजाय दद्याद्वसनाशनानि ॥
नयेदहः शेषमपुण्यहत्या शयीत भूमात्रकृतान्नभक्षः ।
स्नात्वा प्रभाते विदधीत शान्तिं दद्यात् स्वशक्त्या द्रविणं गुरुभ्यः ॥
हविष्यभोजी न भजेच्च नारीं दिनानि सप्तत्रिगुणानि यावत् ।
अकाकघातब्रतमादधीत बलिं च दद्याद्वलिभोजनेभ्यः ॥
देशे च यत्राद्भुतमेतदुग्रमालोच्यते तत्र समापतन्ति ।
अवृष्टिदुर्भिक्षपयोपसर्गचौराग्निशत्रूद्भवधर्मनाशाः ॥
कर्माणि तस्योपशमाय राजा प्रवर्त्तयेच्छान्तिक पौष्टिकानि ।
अन्नार्थगोभूमिवसूनि दद्याद्युद्धं विदध्यान्न यावदब्दम् ॥
इति महाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वायसाद्भुतावर्त्तः ।
अथ मिश्रकाद्भुतावर्त्तः ।
औशनसे ।
उत्पाता विविधात्मानो दृश्यन्ते यत्र तत्र वै ।
देशे भवति शीघ्रं वै षण्मासाद्भयमुत्तमम् ॥
अथ दिव्यमिश्रकामयूरचित्रे ।
पतने तारकाणां च तारां पश्येदरुन्धतीम् ।