पृष्ठम्:अद्भुतसागरः.djvu/७०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९६
अद्भुतसागरे

 निन्द्येषु शुष्केषु च कण्टकेषु वृक्षेषु दुर्भिक्षभयादिहेतुः ॥
 प्रशस्तवृक्षे यदि पूर्वशाखामाश्रित्य काकेन कृतः कुलायः ।
 तद्वृष्टिरिष्टा कुशलं प्रमोदो नीरोगता स्याद्विजयश्च राज्ञाम् ॥
 आग्नेयशाखारचिते सुनीडे स्याद्वृष्टिरल्पाऽग्निभयं कलिश्च ।
 दुर्भिक्षशत्रूद्भवदेशभङ्गाद्भवन्ति रोगाश्च चतुष्पदानाम् ॥
 याभ्यासु शाखासु च वायसेन नीडे कृतेऽल्पं जलपातमाहुः ।
 व्याधिप्रकोपं मरकं समन्तादन्नक्षयं राजविरोधितां च ॥
 नैर्ऋत्यशाखारचिते सुनीडे पश्चाद्घनो वर्षति वर्षकाले ।
 पीडा नृणां विह्वलचौरनीतिदुर्भिक्षयुद्धानि भवन्त्यवश्यम् ॥
 नीडे कृते पश्चिमवृक्षशाखामाश्रित्य काकैः कथिता च वृष्टिः ।
 नीरोगता क्षेमसुभिक्षवृद्धिः सम्यक्प्रमोदाश्च भवन्ति लोकाः ॥
 वायव्यशाखासु कृते च नीडे प्रभूतवार्ताऽल्पजलाः पयोदाः ।
 स्युर्मूषिकोपद्रवशस्यनाशपशुक्षयोद्वेगमहाविरोधाः ॥
 कुवेरशाखामधिकृत्य नीडे कृते भवेत् प्रावृषि वृष्टिरिष्टा ।
 भवन्ति वृक्षे च सुभिक्षसौख्यनीरोगतावृद्धिसमृद्धयोऽस्मिन् ॥
 ईशानशाखासु च वृष्टिरल्पा वैरं प्रजानामुपसर्गदोषः ।
 स्याद्बान्धवानां कलहप्रवृत्तिर्मर्यादया दीयत एव लोकः ॥
 वृक्षाग्रनीडे त्वतिवर्षकाले मध्ये तरोर्मध्यमतोयपातः ।
 तुच्छाऽपिवृष्टिर्न भवत्यधस्तात् स्फुटं यथोक्तं प्रदिशोऽस्फुटत्वात्।

सर्षशाकुने तु पराशरः ।
 बाहुल्यात् प्राच्यां नीडीकरणं क्षेमं सुभिक्षाय । आग्नेय्यां चाल्पवृष्टये । दुर्भिक्षं दक्षिणस्यां विद्यात् । नैर्ऋत्यां व्याधिं योगक्षेमं च । वारुण्यामवर्षणम् । वायव्यां कालोपद्रवमतिवर्षं च । ब्राहृयाम-