पृष्ठम्:अद्भुतसागरः.djvu/७००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९४
अद्भुतसागरे ।

वातालये दुर्दिनवातमेघाश्चौराप्तिनष्टार्थसमागमौ च ।
सन्तोषवार्त्ता वरयोविदाप्तिवार्त्ता रवे स्थान्मधुरे प्रशस्ता ॥
यामे तृतीये विरुवत्युदीच्यां काकेऽर्थलाभो नृपसेवकानाम् ।
भोज्यार्थवृद्धिः शुभदा च वार्ता प्रयाणके वैश्यसमागमश्च ॥
ईशानदेशे तिलतण्डुलाभ्यां भोज्यं सताम्बूलमुपाददाति ।

इति दिक्चक्रप्रकरणे तृतीयः प्रहरः ।

ऐन्द्र्यां तुरीये प्रहरार्थलाभो भूमीशपूजाभयवृद्धिरोगाः ।
वह्नेर्विभागे भयवृद्धिरोगाः शिष्टागमो वायसभाषितेन ॥
याम्ये रवे तस्करचौरभीती स्यातां विशिष्टागमरोगमृत्युः ।
नैर्ऋत्यकोणे महती प्रवृद्धिः स्यादिष्टसिद्धिः पथि चौरयुद्धम् ॥
दिशि प्रतीच्यां प्रहरे चतुर्थे द्विजातिरभ्येति ततोऽर्थलाभः ।
आयाति योषिद्विजयोऽम्बुवृद्धिः सिद्धिः प्रयाणे नृपविद्रवश्च ॥
वायव्यभागे करटस्य शब्दैरायाति योषित् प्रियमाननीया ।
ध्रुवं प्रसादो दिनसप्तकेन शिष्टागमः स्याद्गमने कृते च ॥
कुवेरभागे पथिकः समेति ताम्रादिलाभेन सत्रं तु शीघ्रम् ।
वैश्याध्वगाप्तिस्तुरगादिरूढा यात्रा विभूत्यै म्रियते च रोगैः ॥
ईशानभागे वलिभुग्विरावः सुवर्णवार्त्ता सरुजो विनाशः ।
ब्रह्मप्रदेशे प्रहरे तुरीये वार्ता भवेन्मध्यमकेष्टसिद्धिः ॥

इति दिक्चक्रप्रकरणे चतुर्थः प्रहरः ।

यद्भाषितं शाकुनिकैर्विमिश्रं शुभाशुभं दिक्प्रहरक्रमेण
तत्राशुभं यच्छति दीप्तशब्दः श्रेयस्करः शान्तरवस्तु काकः ॥
शान्ते प्रदीप्ते च शमं विहङ्गः शुभप्रदो दीप्तपराङ्मुखः सन् ।
न क्वापि रौद्रारटितः प्रशस्तः सर्वत्र शस्तो मधुरस्वरस्तु ॥