पृष्ठम्:अद्भुतसागरः.djvu/६९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९२
अद्भुतसागरे ।

नैर्ऋत्यभागे च यदि प्रभाते करोति काकः सहसा विरावम् ।
क्रूरं ततः कर्म किमभ्युपैति दूतागमो मध्यमिका च सिद्धिः ॥
प्रातः प्रतीच्यां यदि रौति काको ध्रुवं तदा वर्षति वारिवाहः ॥
स्त्रीरत्नभूभृत्पुरुषागमश्च कलिः कलत्रेण समं तथा स्यात् ॥
ध्वाङ्क्षे सशब्दे पवनालयस्थे वस्त्रागमं च स्वजनस्य लाभः ।
पान्थागमो ब्राह्मणवृत्तिनाशः स्यादन्यदेशे गमनं स्वदेशात् ॥
दिश्युत्तरस्यां सरवः प्रभाते निरीक्षमाणो बलिभुग्नराणाम् ।
ददाति दुःखं भुजगाच्च भीतिं दरिद्रतां नष्टधनेष्टलाभौ ॥
दिशीशवत्यां यदि रौति काक आगच्छतस्तद्वविजाऽन्त्यजातिः ।
व्याधिं च धत्ते निवस्तुलाभं भवेन्न वा रोगवतोऽवसानम् ॥
ब्रह्मप्रदेशस्थितवायसस्य प्रभातकाले मधुरस्वरेण ।
अभीप्सिताभ्यागमनं ध्रुवं स्यात् स्वामिप्रसादो द्रविणस्य लाभः ॥

चक्रदिक्प्रकरणे सूर्योदयः ।

प्राच्यां च यामे प्रथमे सुशब्दः काको भवेच्चेष्टितकार्यसिद्ध्यै ।
अभीष्टलोकागमनं तथा स्यादिष्टार्थलाभो नियतं नराणाम् ॥
आग्नेयभागे प्रथमे च यामे स्त्रीलाभविद्वेषिवधौ भवेताम् ।
कृतान्तभागे वलिभुग्विरावः स्त्रीलाभसौख्यं प्रियसङ्गमाय ॥
नैर्ऋत्यभागे प्रिययोषिदाप्तिर्मिष्टाशनं सिध्यति चिन्तितोऽर्थः ।
दिशि प्रतीच्यां विरुतैर्भवेतामत्यर्थतोयागमनाल्पवृष्टी ।
वायव्यकोणे विटसङ्गतिः स्यान्नृपप्रसादोऽध्वरदर्शनं च ।
सौम्ये च भीस्तस्करशोकवार्त्ता स्निग्धा च वार्ता धनलाभवार्त्ता ॥
ईशानभागेऽभिमतेन सङ्गस्त्रासो हुताशाद्बहुलोकभङ्गः ।
सम्मानसम्यग्द्रविणेष्टसिद्धिः ब्रह्मप्रदेशे सुखकामभोगः ॥

इति दिक्चक्रप्रकरणे प्रथमः प्रहरः ।