पृष्ठम्:अद्भुतसागरः.djvu/६९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८९
वायसाद्भुतावर्त्तः ।

 ऊर्ध्वमुखाश्चलपक्षाः पथि भयदाः क्षुद्भयाय धान्यमुखाः ।
 सेनाङ्गस्था युद्धं परिमोषं चान्यभृतपक्षाः ॥
 काष्ठरज्ज्वस्थिनिःसारकेशकण्टकिभृद्रुवन् ।
 व्यालाहिव्याधिशस्त्राग्नितस्करेभ्यो भयङ्करः ॥
 युद्धं सेनाङ्गसंस्थे तु मोषकृत् स्वविलेखने ।
 चरन् निशि विनाशाय दुर्भिक्षं धान्यमोषकृत् ॥

विलेखनमङ्गादिविलेखनम् ।
पराशरस्तु ।
 निश्यन्तरिक्षे सङ्कशः सशब्दं चरेयुर्नृपजनपदयोर्भयम् । सन्ध्यायां सर्व उपरिक्रम्य निलीना अन्नभयम् ।
मत्स्यपुराणे ।

 "दुर्भिक्षावेदिनो ज्ञेयाः काका धन्यमुखा यदि ।
 जनानभिभवन्तीह निर्भया रणवेदकाः"[१]

पराशरस्तु ।

धान्ये शिरो निधाय कंम्पयन् पुरीषं वा भक्षयन् दुर्भिक्षाय ।

वराहः ।

 [२]अकार्यसंहतैर्भेदो रोधश्चक्राकृतिस्थितैः ।
 वर्गगैश्चाभिघातः स्याद्रिपुवृद्धिश्च निर्भयैः ॥
 अनिमित्तसंहतैर्ग्राममध्यगैः क्षुद्भयं प्रवाशद्भिः ।
 रोधश्चक्राकारैरभिघातो वर्गवर्गस्यैः ॥
 अभयांश्च तुण्डपक्षैश्वरणविघातैर्जनानभिभवन्तः ।
 कुर्वन्ति शत्रुवृद्धिं निशि विचरन्तो जिनविनाशम् ॥
 सव्येन खे भ्रमद्भिः स्वभयं विपरीतमण्डलैश्च परात् ।
 अत्याकुलं भ्रमद्भिर्वातोद्भ्रान्तिर्भवति काकैः ॥


  1. २३७ अ. १० श्लो. ।
  2. अत्र प्रथमो श्लोको बृहद्यात्रायाश्चरमौ बृहत्संहिताया: ।