पृष्ठम्:अद्भुतसागरः.djvu/६९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८६
अद्भुतसागरे ।

 तत्प्राप्तिनाशौ विज्ञेयौ हेमपीते विनिर्दिशेत् ॥

इतस्य नाश उपनीतस्य प्राप्तिः ।
यदाह वराहसंहितायाम् ।

यद्द्रव्यमुपनयेत् तस्य लब्धिरपहरति चेत् प्रणाशः स्यात् ।
पीतद्रव्यैः कनकं वस्त्रं कार्पासिके सितै रूप्यम्

विष्णुधर्मोत्तरे ।

 यच्चैवोपनयेद्द्रव्यं तस्य लब्धिं विनिर्दिशेत् ।
 द्रव्यं वाऽपनयेद्यस्तु तस्य हानिर्द्विजोत्तम ॥
 पीतं शुक्लं तथा रूक्षं रूप्यमेव तु भार्गव ।

वसन्तराजश्च ।

द्रव्यं हरन् वा हरतीह यादृक् प्रणाशलाभावपि तादृशस्य ।
रूक्षस्य पीते रजतस्य शुक्ले चैलस्य कार्पासमये भवेताम् ॥

पराशरः ।
 शुष्कगोमयराशौ पादौ विलिखेन्नवपालाशभूर्यपत्रं वा गृहीत्वोपसर्पेत् तस्य वस्त्राणां लाभः स्यात् । यस्य कर्षेत् नाशस्तेषामेव ।
वराहसंहितायाम् ।

 पूर्णाननेऽर्थलाभः सिकताधान्यार्द्रमृत्कुसुमपूर्वैः ।
 भयदो जनसंघात[१]द्यदि भाण्डान्यपनयेत् काकः ॥

पराशरः ।
 प्रेष्ये चेत् प्रेष्यमाणे दृषदि काको निपतेत् तस्य व्याधिभयं मरणभयं वा ब्रूयात् ।
यदर्थं तत् प्रेष्यते ।
वराहः ।

 [२]स्कन्धावारादीनां निवेशसमये रुवँश्चलत्पक्षः।
 सूयतेऽन्यत् स्थानं निश्चलपक्षस्तु भयमात्रम् ॥


  1. जनसंवासा-इति अ. पु. पा. ।
  2. अत्र श्लोकद्वयं बृहत्संहितायाश्चरमश्लोको बृहद्यात्राया इति ।