पृष्ठम्:अद्भुतसागरः.djvu/६९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८४
अद्भुतसागरे ।

विष्णुधर्मोत्तरे ।

 प्रोषितागमनं काकः कुर्वन् द्वारि गतागतम् ।

पराशरः ।
 गृहद्वारि चेद्गतागतं कुर्यादागन्तूनां समागमं कुर्यात् । यस्य वेश्मन्यार्द्रलेखं पातयेत् तस्य विद्यागमो भवेत् । आर्द्रकाष्ठलाभाय आर्द्रपक्षो वाऽन्नमुखोऽप्यतिश्रीलाभाय । चैलं परामृष्य गृहे तिष्ठन् क्षेमाय । तुण्डेन व्रीहीन् गोऽश्वकुञ्जरवेश्मसुपुत्रलाभाय ।
पातयेदिति सम्बन्धः ।
वराहसंहितायाम् ।

 शस्योपेते क्षेत्रे विरुवति शान्ते सशस्यभूलब्धिः ।
 पुरतो जनस्य महतो वधमभिधत्ते तदा बलिभुक् ॥
 अन्योन्यभक्षनंक्रामितानने तुष्टिरुत्तमा भवति ।
 विज्ञेयः स्त्रीलाभो दम्पत्योर्वाशतो युगपत् ॥
 प्रमदाशिर उपगतपूर्णकुम्भसंस्थेऽङ्गनार्थसम्प्राप्तिः ।
 घटकुट्टने सुतविपद्घटोपहदनेऽन्नर्थसंप्राप्तिः ॥

पराशरस्तु ।
 पक्षानुत्सार्वालुनीय पुच्छमञ्जसा रुतिं कुर्वन्तस्तुण्डैर्वाऽन्योन्यं स्पृशेयुः स्त्रीलाभः स्यात् । परस्परमारोहयेयुः पूर्वेण भूमिलाभ स्यात् ।
वराहसंहितायाम् ।

 सुस्निग्धपत्रपल्लवकुसुमकलानम्रसुरभिमधुरेषु ।
 सक्षीराव्रणसंस्थिनमनोज्ञवृक्षेषु चार्थसिद्धिकरः ॥
 निष्पन्नशस्यशाद्वलभवनप्रासादहर्म्यहरितेषु ।
 हर्म्योच्छ्रयमङ्गल्येषु[१] चैव विरुवन् धनागमदः ॥


  1. धन्योच्छ्रयमङ्गल्येषु-इति अ. पु. पा ।