पृष्ठम्:अद्भुतसागरः.djvu/६८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७८
अद्भुतसागरे ।

पराशरः ।

 सर्वोषधैः सर्वबीजैः सर्वगन्धैश्च मानवः ।
 अहोरात्रोषितः स्नातो रत्नाधरेण वारिणा ॥
 देवद्विजातिपूजाभिराशीर्भिर्गतकिल्बिषः ।
 खञ्जरीटकृताद्दोषान्मुच्यते महतोऽप्यसौ ॥

वसन्तराजः ।

पूर्वोक्तमेतच्छकुनं समस्तं यात्रादिकालेष्वपि तुल्यमाहुः ।
खञ्जनस्य परिकीर्त्तितं शुभं दर्शनं भवति मङ्गलप्रदम् ॥
यात्यसौ यदि पुनः प्रदक्षिणं तत् करोति कथितस्य वाञ्छितम् ।

वराहसंहितायाम् ।

 नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम् ।
 पश्येत् तया गतस्य क्षिप्रमरातिर्वशमुपैति ॥

वसन्तराजः ।

प्रत्यक्षमाश्चर्यमिदं विहाय सर्वो जनः पश्यतु खञ्जनस्य ।
अङ्गारखण्डः किल भूमिभागे तस्मिन् भवेद्यत्र करोति विष्ठाम् ॥
यत्रावनौ मैथुनमभ्युपैति सत्यं भवेत् तत्र महानिधानम् ।

कश्यपस्तु ।

 मैथुनं कुरुते यत्र तत्राधः काञ्चनं दिशेत् ।

वराहसंहितायाम् ।

  तस्मिन् निधिर्भवति मैथुनमेति यस्मिन्
 तस्मिन् समुद्गिरति तत्र तलेऽस्ति काचः ।
  अङ्गारमप्युपदिशेच्च पुरीषणेऽस्य
 तत्कौतुकापनयनाय खनेद्धरित्रीम् ॥

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे खञ्जनाद्भुतावर्त्तः ।