पृष्ठम्:अद्भुतसागरः.djvu/६८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७६
अद्भुतसागरे ।

अथाशुभस्थानानि । तत्र पराशरः ।
 शुष्ककाष्ठपलालदग्धास्थिभस्मतृणतुषाङ्गारभग्नगृहयूपशङ्कु-शून्यकुम्भकण्टकिवल्लीशकटस्तम्भप्राकारशिखरपाषाणसिकतास्वप्रहष्टं दृष्ट्वा व्याधिकलहानर्थागमान् विन्द्यात् ।
वसन्तराजः ।

वल्लीदृषत्कण्टकिशुष्कवृक्षदग्धास्थिशूलाकृतभाजनेषु ।
शून्यालये लोमसु गेहकोणे बुने पलाले सिकतासु यूपे ॥
एषु प्रदेशेष्वथ वा पुरेषु यदीदृशेषूपतेषु दृष्टः ।
कुमूर्त्तिचेष्टः स तदा करोति न्यक्कारभीरुः कलहाद्यनार्थान् ॥

वराहसंहितायाम् ।

 गृहपटलेऽर्थभ्रंशो बध्ने बन्धोऽशुचौ भवति रोगः
 पक्षौ धुन्वन्नशुभः शकटस्थे देशविभ्रंशः[१]

वधूश्चर्मरज्जुः । तथा च वसन्तराजः ।

बध्नीवरत्रास्वशुचौ च रोगो गृहच्छदे स्याद्रविणस्य नाशः ।
निरीक्ष्यते वा निशि देशभङ्गो निद्राभिभूतं च भवन्ति रोगाः ॥

पराशरः ।
 मृते मरणम् । बध्रे बन्धम् । अशुचौ व्याधिम् । स्वरकरभपृष्ठे मरणं प्रवासं वा । युध्यमाने कलहम् । पक्षपातने मृत्युं स्मशाने वा ।
वराहसंहितायाम् ।

 महिषोष्ट्रगर्दभास्थिश्मशानगृहकोणशर्कराट्टस्थः ।

वसन्तराजः ।

श्वानोष्ट्रवालेयकष्टपातस्थितः स्वपत्युर्विदधाति मृत्युम् ।
पक्षौ च धुन्वन् दिवसस्य चान्ते वृद्धो मृतो वानशुभः कदा चित् ।

वराहसंहितायाम् ।

 मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः ।


  1. शुभः पिबन् वारि निम्नगासंस्थः 'इत्यत्र 'पङ्के स्वाद्वन्नाप्ति'रित्येतस्य श्लोकस्प चतुर्थचरणो निक्षेपितः । द्रष्टव्या अ. पु. ५३५ पृ, २४ पं ।