पृष्ठम्:अद्भुतसागरः.djvu/६८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७४
अद्भुतसागरे ।

 हेमसमीपसिताम्बरकमलोत्पलपूजितोपलिप्तेषु ।
 दधिपात्रधान्यकूटेषु च श्रियं खञ्जनः कुरुते ॥
 पङ्के स्वाद्वन्नाप्तिर्गोरससम्पच्च गोमयोपगते ।
 शाद्वलगे वस्त्राप्तिः...........॥

वसन्तराजः ।

स्याद्गोमये गोरसलाभहेतुर्वस्त्रस्य लाभाय च शाद्वलादौ ।
खादन् पिबन् भोजनपानलब्ध्यै लाभाय गेहस्य च नावि दृष्टः ॥

पराशरः ।
 पिबत्यम्भः पानागमं गोष्ठमध्ये गृहलाभं परसंदर्शितेऽन्यस्त्रीसमागमं फलविलिखिते क्षेत्रे पाणिग्रहणम्-इति ।
वसन्तराजः ।

संदर्शितेऽन्येन च खञ्जरीटे स्यादन्यनार्या सह सङ्गलाभः ।
विवाहलाभो हलखातभूमौ धान्यस्य राशावपि धान्यलाभः ॥

वराहसंहितायाम् ।

मृतविकलविभिन्नरोगितः स्वतनुसमानफलप्रदः खगः ।
धनकृदभिविलीयमानको वियति च बन्धुसमागमप्रदः ॥
पृष्ठे त्वजाविकानां प्रियसंगममावहत्याशुं ।

वसन्तराजस्तु ।

 धान्यार्थलब्ध्यै महिषाव्यजादौ -उपरि पृष्ठ इत्यर्थ: ।

तथा च पराशरः ।
 गोश्वाजाविकमहिषपृष्ठे पृथ्वीधनधान्यागम इति । महिषीपृष्ठव्यतिरिक्तान्यावयवेष्वशोभनं तत्फलमशुभदेशे प्रशस्तमिति वक्ष्यामः -इति ।
वसन्तराजः ।

 तुरङ्गमातङ्गमहोरगेषु सरोजगोछत्रवृषेषु येन ।
 पर्वत्र दृष्टोऽहनि खञ्जरीटो निःसंशयं तस्य भवेन्नृपत्वम् ॥