तत्र वसन्तराजः ।
स्थूलास्तथायाः कपिलाः कदाचिदृगोचरं यान्ति घृतेण्डिकाख्याः ।
विज्ञेन तासां शकुनं गवेष्यं पिपीलिकानामिह नापरासाम् ॥
अत्यर्थपूर्णेऽञ्जतकुङ्कुमाभ्यां ग्राह्यं गृहे नेष्टमथापराणाम् ।
स्तोकस्थितावस्करनीरदेशे पिपीलिकानां शकुनं गवेष्यम् ॥
स्वर्णरत्नधनमध्यतो यदा संभवन्ति सुकृतप्रचोदिताः ।
स्वर्णरत्नधनवृद्धिहेतवस्तद्भवन्ति कपिलाः पिपीलिकाः ॥
तोयपूर्णकलशाजिरान्तगा भक्तपूर्णपिठराश्च निर्गताः ।
निर्दिशन्ति कपिलाः पिपीलिका द्रव्यवृद्धिमचिरेण भूयसीम् ॥
आरनालघटमूलगाः शुभा धान्यवृद्धिमपि धान्यमध्यगाः ।
सूचयन्ति च महानसोद्गता गेहदाहमचिराद्घृतेण्डिकाः ॥
यदि प्रविश्याज्यघटे घृतेण्ड्यस्तिष्ठन्त्यहोरात्रकृताधिवासाः ।
स्वल्पैरहोभिः कृतसन्निपाता मुष्णन्ति चौरा भवनं तदानीम् ॥
तुल्या निदाघेन भवन्ति वर्षा[१]विनिर्गतास्वम्बुघटस्य मूलात् ।
धान्यस्य मध्यात् पुनरुद्गतासु धान्यार्घपातो[२]वनकीटकासु ॥
स्वल्पाश्रयाः स्वल्पवतोघृतेण्डयो मृत्युं रुजं वा जनयन्ति दीर्घाम् ।
उत्पत्तयेऽनर्थपरं परा याः स्युर्देहलीदेशविलोक्यमानाः ॥
बह्वो गृहस्योपरि निःसरन्ति रक्ताः पिपील्यो यदि सर्वमर्थम् ।
हरन्ति चौरा मरणं भयं च तज्जायतेऽवश्यमहोभिरल्पैः ॥
केदाररथ्यानृपदेवगेहचैत्यद्रुमद्यूतसभान्तरेषु ।