पृष्ठम्:अद्भुतसागरः.djvu/६७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६३
शृगालाद्भुतावर्त्तः ।

पराशरः ।
 सर्वत्र घोरप्रणादिनी सर्वतो ग्रामं परिगच्छन्ती च शस्त्रोत्पातान् । भृशं स्वरे ह्युद्घुष्टकान्यभिधाय पीडाशस्त्राभिघाताय प्रमाणीकुर्यात् ।
वसन्तराजः ।

दिक्ष्वारुदन्ती सकलासु रौद्रं भ्राम्यत्यखिन्ना परितः पुरं चेत् ।
शृगालजाया खलु तद्ब्रवीति युद्धं महच्चैव तथा विघातम् ॥
करोति फेफे इति सर्वदिक्षु यदा तदा स्थानविघातयुद्धे ।
शिवाऽभिधत्ते क्षुधिता त्वसंख्यान् रौद्रस्वरान् मुञ्चति चेदुपेक्ष्या॥
 सर्वदिक्षु शुभा दीप्ता विशेषेणाथ शोभना ।
 पुरे सैन्येऽथ सव्या या काष्टा सूर्योन्मुखी शिवा ॥

मत्स्यपुराणे ।

 अर्कोदयेऽर्काभिमुखी शिवा यमभयं वदेत् ।

वराहसंहितायां तु ।

“शिवोदये यत्र दिवाकरस्य भोमारवा चोर्ध्वमुखी विमुञ्चेत् ।
समागता वायसगृध्रसङ्घैस्तदा भयं वेदविदो वदन्ति”[१]

पराशरः ।

 सन्ध्यायां मनुष्यवधाय ।

सुन्दरकाण्डे रावणवधनिमित्तम् ।

 "उपरक्ते च सन्ध्ये द्वे व्याहरत्यशिवं शिवा”[२]

वसन्तराजः ।

आद्ये दिनस्य प्रहरे प्रवृत्ते महेशदेवेशहुताशदिक्षु ।
शिवा रटन्ती कुरुते क्रमेण संत्रासकायव्ययबन्धनानि ॥
अह्नो द्वितीये प्रहरस्य भागे सहस्रनेत्रानलकालदिक्षु ।


  1. नेदम् अ, पुस्तके उपलभ्यते ।
  2. नोक्तस्थलेऽस्योपळब्धिः ।