पृष्ठम्:अद्भुतसागरः.djvu/६५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५२
अद्भुतसागरे ।

वसन्तराजः ।

श्वा याति कस्थो[१] विदधाति धर्म यद्युत्कटेन स्थितिमानसेन । उत्पादत्याशु विरोधमुग्रं तज्जागरूकः सुहृदाऽपि साकम् ॥

पराशरः ।

 कण्ठपानं श्वाऽऽरोहेद्भयम् ।

वसन्तराजः ।

उद्धूलिकोऽस्मादिति पूर्णवक्त्रो भयं पुरश्चौरभयाय पक्षः ।
यस्याग्रतः श्वाऽस्थि शवं गृहीत्वा नयत्यसौ याति पुरीं यमस्य ॥
निमर्थ्य तोये स्ववपुर्विधुन्वन् कौलेयकश्चौरभयं करोति ।
भयं त्वभीक्ष्णं पथि मन्दिरे वा ग्रीष्मेऽथ वा चौरभयाय भूमेः ॥
मांसास्थ्यभक्ष्याणि च भस्ममध्ये स्याद्वोपयत्यग्निभयं प्रभूतम् ।

पराशरः ।
 शुष्कमल्पफलं कण्ट किनं स्वक्षीरं वा वृक्षमवमूत्रयत्यरिप्रादुर्भावम् । अतो विपरीते धनलाभम् । तमेव खनति धनलाभम्। नवामन्नपूर्णां वा स्थालीमवसूत्रयति कन्याप्रदः । पुराणं स्त्रियाः । शय्यां भार्याया अथवा कुटुम्बिन्या मृत्युम् । शिरस्त्राणं स्त्रियं नरं वा तस्यैव धनलाभं सौभाग्यं वा । दधिपूर्णं कलशं चौरमुपस्थितं वा उदकुम्भं चौरमेव च । नवं चेच्छकटं कम्पयन् यानोद्यच्छकटं याति यानोपयुक्तं वा स्वामिनो वधम् ग्राममध्ये ऊर्ध्वमुखो नदन् नखैर्भूमिं च लिखेद्भयम् ।
वसन्तराजः ।

 अत्यर्थनादं यदि वाऽतिदीनं दृष्ट्वा दिने संभषणं बहूनाम् ।
 कौलेयकानां विमलं विजृम्भं नदन्ति मूर्धस्वरकाः सकम्पम् ॥
 विनाऽऽमिषं यत्र च जागरूकाः कुर्वन्ति शब्दं बहवो मिलित्वा ।
 उत्पद्यते विग्रहनेव भूतेष्वत्राचिराद्विग्रहमग्रभूतम् ॥


  1. कस्थो जलस्थ:- इति ।