एकेनाक्ष्णा साश्रुणा दीनदृष्टिर्मन्दाहारो दुःखकृत् तद्गृहस्य ।
गोभिः सार्धं क्रीडमानः सुभिक्षं क्षेमारोग्यं वाऽभिधत्ते मुदं वा ॥
नृतुरगफंरिकुम्भपर्याणसक्षीरवृक्षेष्टकासञ्चयच्छस्त्रशय्यासनोलूखलानि ध्वजं चामरं शाद्वलं पुष्पितं वा प्रदेशं यदा श्वाऽवमूत्र्याग्रतो याति यातुस्तदा कार्यसिद्धिर्भवेदार्द्रके गोमये मिष्टभोज्यागमः शुष्कसम्मूत्रणे शुष्कमन्नं गुडो मोदकावाप्तिरेवाथ वा । अथ विषतरुकण्टकीकाष्ठपाषाणशुष्कद्रुमास्थिश्मशानानि मूत्र्यावहत्याथ वा यायिनोऽग्रेसरोऽनिष्टमाख्याति शय्याकुलालादिभाण्डान्यभुक्तान्यभिन्नानि वा मूत्रयन् कन्यकादोषकद्भुज्यमानानि चेद्दुष्टतां तद्गृहिण्यास्तथा स्यादुपानत्फलं गोस्तु सम्मूत्रणेऽवर्णजः सङ्करः ॥
गमनमुखमुपानहं सम्प्रगृह्योपतिष्ठेद्यदा स्यात् तदा सिद्धये मांसपूर्णा-ननोऽर्थाप्तिरार्द्रेणचास्था शुभं साग्न्यलातेन शुष्केण चास्था गृहीतेन मृत्युः प्रशान्तोल्युकेनाभिघातोऽथ पुंसः शिरोहस्तपादादिवक्लेभुवोऽभ्यागमो वस्त्रचोरादिभिर्व्यापदः केचिदाहुः सवस्त्रे शुभम् । प्रविशति तु गृहं सशुष्कास्थिवक्त्रे प्रधानस्य तस्मिन् वधः शृङ्खलाशीर्णवल्लीवरत्रादि वा बन्धनं चोपगृह्योपतिष्ठेद्यदा स्यात् तदा बन्धनं लेढि पादौ विधुन्वन्स्वकर्णावुपर्याक्रमँश्चापि विघ्नाय यातुर्विरोधे विरोधस्तथा स्वाङ्गकण्डूयने स्यात् स्वपँश्चोर्ध्वपादः सदा दोषकृत् ॥
विष्णुधर्मोत्तरे ।
अन्तर्गृहे गृहेशस्य मरणाय भवेद्भयम् ।
पराशर ।
वस्त्रखण्डं रञ्जुं वा नयत्यग्निभयम् । चेल्लवणं वा धनक्षयम् । दधि तु भार्यायाः। पलायमान उपानहं प्रेष्यायाः। आनयने तु फलादिष्वेतेषु लाभम् ।