पृष्ठम्:अद्भुतसागरः.djvu/६५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५०
अद्भुतसागरे ।

वर्षासु वृष्टिं कथयन्ति तीव्रामन्यत्र मृत्युं दहनं रुजश्च ॥
प्रावृट्कालेऽवग्रहेऽम्भोऽवगाह्य प्रत्यावर्त्तैरेचकैश्चाप्यभीक्ष्णम् ।
आधुन्वन्तो वा पिबन्तश्च तोयं वृष्टिं कुर्वन्त्यन्तरे द्वादशाहात् ॥
वृक्षोपगे क्रोशति तोयपातः स्यादिन्द्रकीले सचिवस्य पीडा ।
वायोर्गृहे शस्यभयं गृहान्तः पीडां पुरस्यैव तु गोपुरस्थः ॥
भयं च शय्यासु तदीश्वराणां याने भषन्तो भयदाश्च पश्चात् ।
अथापसव्या जनसंनिवेशे भयं भषन्तः कथयन्त्यरीणाम् ॥

विष्णुधर्मोत्तरे ।

 स्कन्धावारुह्य सव्यस्थाः श्वानो रिपुविनाशकाः ।
 इन्द्रस्थाने नरेन्द्रस्य पुरेशस्य तु गोपुरे ॥

वसन्तराज:।

भवेद्गृहस्योपरि वातभीत्यै पश्चाद्भयं भीतिकरः प्रयाणे ।
यश्चापसव्यं जनसंनिवेशे भयं भवत्याशु सवैरभीति ॥
भयं त्वभीक्ष्णं भवने स्थितानामावेष्टनं चेत् कुरुते कदा चित् ।
कौलेयकोऽवश्यमुपस्थितं तु ज्ञेयं भयं बन्धनजं प्रवृत्तम् ॥

पराशरः ।
 गृहं समारुह्य लिखति पुरुषक्षयं गृहस्वामिनः । कलहायमानः श्वाऽनिमित्तकलहाय । संदधत् सन्धये । द्वारि चैलं गृहीत्वा परिक्रीडन् परिक्लेशाय ।
वसन्तराजः ।

कृत्वा शिरो द्वारि बहिर्गतश्चेच्छ्वा रौति दीर्घं गृहिणीं प्रपश्यन् ।
तद्रोगदो वक्ति च बन्धकीं तां बहिर्मुखोऽभ्यन्तरकायभागः ॥

वराहसंहितायाम् ।

द्वारे शिरोऽन्यस्य बहिःशरीरो रोरूयते श्वा गृहीणीं विलोक्य ।
रोगप्रदः स्यादथ मन्दिरान्तर्बहिर्मुखः शंसति बन्धकीं ताम् ॥