पृष्ठम्:अद्भुतसागरः.djvu/६५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४६
अद्भुतसागरे ।

मादिका सामान्यशान्तिर्मृगपक्षिविकारविहितौत्पातिकफलगुरुलघवमवगम्य कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वृषमहिषाद्यद्भुतावर्त्तः ।
अथ विडालाद्यद्भुतावर्त्तः ।

तत्र वसन्तराजः ।

 शस्तो रुदन्नामिषपूर्णवक्त्रो रक्ताननो नादकृदप्रशस्तः ।
 नानाप्रकारैर्विरुतैः समेतो निन्द्यो विडालः खलु युध्यमानः ॥

यात्रापरमेतत् ।
पराशरः ।
 अथ विडालो दीप्तायामेकस्वरो व्याहरन् शस्त्रकोपं भयं च करोति । दीप्तायां भयमेवाशु । मुक्तः कान्तारे तु स्त्रीजनक्षयाय । खरोऽनुप्रधावन् ग्राममध्ये घोरस्वरो भयाय । उच्चैर्नदन् भैरवं नर्दत्यकस्माच्छ्रेष्ठभयाय महते ।
 अत्रानुक्तविशेषशान्तिषु विडालोत्पातेषु सावित्रीमन्त्रकलक्षहोमादिका शान्तिर्मृगपक्षिविहितौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।
हरिवंशे बाणपराजयनिमित्तम् ।

 "ननादान्तर्हितो रात्रौ वृषदंशो जगर्ज च"[१]

महाभारते भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 “अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः ।
 प्रणादं युध्यतो रात्रौ घोरौ नित्यौ पुरक्षये”[२]

अत्र वातजोयस्कारवैकृत[३] विहिता शान्तिः कर्त्तव्या ।

इति
श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे विडालाद्भुतावर्त्तः ।


  1. ११६ अ. ५९ श्लो. तत्र 'ननादान्तर्हितो भूमौ' इति पा. ।
  2. २ अ' २५ श्लो. तत्र 'रौद्रं नित्यं प्रलक्षये'-इति पा.।
  3. द्रष्टव्याऽस्यैव ग्रन्थस्य ४७२ पृ. १३पं. ।