पृष्ठम्:अद्भुतसागरः.djvu/६५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४३
वृषमहिषाद्भुतावर्त्तः ।

नारदः ।

 रुधिरं प्रसवेद्यत्र दुह्यमानासु धेनुषु ।
 प्रभुश्व म्रियते तत्र धनहानिर्न संशयः ॥

भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् ।
 ता गाव: प्रस्रुता वत्सैः शोणितं प्रक्षरन्त्युत"[१]

भागवते जगदुद्वेजकहिरण्याक्षोत्पत्तौ ।

 "गावोऽत्रसन्नसृग्दोहाः"[२]

रोधिरदोहे तु शान्तिमाह नारदः ।

 दधिमधुघृताक्तायाः पालाश्याः समिधोऽयुतम् ।

मयूरचित्रे तु ।

 गवां रक्तत्य संदोहे राजा स्याद्रिपुगोचरः ।
 दुह्यन्ते रुधिरं गावस्तण्डुला अकुरन्ति वै ॥
 अर्वाक् स वत्सरं नश्येत् प्रभुर्देशो भवेद्वनम् ।
 अष्टोत्तरसहस्रं तु महाव्याहृतिभिः शुचि ॥
 उदुम्बरसमिद्धेऽग्नौ दानं गोर्द्विजभोजनम् ।

तत्रैव ।

 धेन्वाः संदुह्यमानायाः कृमयः संभवन्ति च ।
 ऐन्द्रीं शान्तिं ततः कुर्यात् सहस्रं जुहुयादथ ॥
 त्रातारमण्डलमिति मत्रेणाष्टोत्तरं शुचि ।
 चरुकर्माशनं चास्य ब्राह्मणाँस्तर्पयेत् ततः ॥
 पायसैर्मधुसंयुक्तैर्दधिक्षीरगुडोदनैः ।
 महोत्पातोपशान्त्यर्थं हुतान्ते बहुदक्षिणाः ॥

गर्गः

 धेनुर्धेनुं पिबेद्यत्र ह्यनड्वाननुडुहस्तथा ।


  1. ३ अ, २० श्लो. ।
  2. श्रीमद्भागवते ३ स्कन्दे १८ अ. १३ श्लो. ।