पृष्ठम्:अद्भुतसागरः.djvu/६४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४२
अद्भुतसागरे ।
अथ वृषमहिषाद्भुतावर्त्तः ।

तत्र गर्गः ।

 शिवाय स्वामिनो रात्रौ बलीवर्दो नदन् भवेत् ।
 उत्स्सृष्टवृषभो राज्ञो विजयं संप्रयच्छति ॥

पराशरः ।
 बलीवर्दोऽक्षतश्च योऽनिमित्ततो वित्रस्तः प्रणदन्नावेदयति भयम् । दक्षिणेन यदा भूर्यन्नहृष्टरूपमुत्क्राम्य जघनचरणान् धूनयत्यनर्थः । अन्यदेशाक्रामणं भिन्नवृत्तिस्तद्वसुभृतः ।
वसन्तराजस्तु ।

 प्रशस्यते दक्षिणतश्च चेष्टा तथा निशीथे निनदो वृषस्य ।
 वामे च भागे गमनं वृषस्य चेष्टा च वामा महतां हिताय ॥

श्रीभागवते कृष्णोत्क्रान्तिनिमित्तम् ।

"नाहन्यन् वृषभा व्रजे"[१]

मयूरचित्रे ।

 मुह्यन्ति वृषभा यत्र निबद्धा गृह एव च ।
 माद्यं वाऽपि भवेद्गेहे धनहानिश्च जायते ॥
 हव्यमष्टोत्तरं तत्र त्र्यम्बकेनाम्बुपत्रकम् ।
 सहस्रं दक्षिणा गोस्तु ब्राह्मणाय शुभं तथा ॥

वसन्तराजः ।

अर्धाय नाशाय च तुल्यकाले पार्श्वद्वयस्थौ महिषौ भवताम् ।

औशनसे ।

 यस्य राज्ञो जनपदे नित्यमेव गवां क्षयः ।
 भयं तत्र विजानीयादचिरात् समुपस्थितम् ॥


  1. श्रीमद्भागवते नोपलभ्यते ।