पृष्ठम्:अद्भुतसागरः.djvu/६३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२९
अश्वाद्भुतावर्त्तः ।

 क्षुधाभयं च नैर्ऋत्यां वारुणे जनसंप्लवम् ।
 वायव्यां च व्याधिनाशं सौम्ये च शत्रुरोधनम् ॥
 ऐशान्यां तुरगरुताद्द्विजातीनां महद्भयम् ।
 खे रवेत् तत् तदेवाशु विद्यात् तत्र महद्भयम् ॥
 रात्रौ रुतं भवेत् स्वस्मिञ्छत्रावह्नि रुतं भवेत् ।
 एवं शुभाशुभं ज्ञेयं समे समफलं मतम् ॥
 दृष्ट्वा त्वशुभमुत्पातं शान्तिं तत्र च कारयेत् ।
 [१]शान्त्युक्तामुपसर्गेषु वाहानां हितमिच्छता ॥
 उभौ कालौ तु विधिवद्ब्राह्मणान्मधुपायसैः ।
 पुष्कलां दक्षिणां वाऽपि हयागारेषु वाऽऽचरेत् ॥
 पुष्पलाजाक्षतैर्वाऽपि गोपुरेषु च कारयेत् ।
 इत्याह स्म च भगवान् शालिहोत्रोऽग्निनाशनम् ॥

अथ ज्वलितफलम् । तत्र पराशरः ।

मुखादग्निविस्फुलिङ्गोलंकाज्वालाप्रपतनमुत्तमाङ्गज्वलनं नाशाय ।

विष्णुधर्मेत्तरे ।

 नेत्रनासापुटप्रोथस्कन्धसासनमूर्धसु ।
 हयानां ज्वलनं शस्तमतोऽन्यत्र न शस्यते ॥

बृहद्यात्रायां वराहः ।

नासापुटप्रोथशिरोऽश्रुपातनेत्रेषु रात्रौ ज्वलनं जयाय ।
पालाशताम्रासितकर्बुराणां[२]चित्रांशुकाभस्य सितस्य चेष्टम् ॥

विष्णुगुप्तस्तु ।

 नासापुटाश्रुपातप्रोथशिरोलोचनेषु रजनीषु ।
 विजयाय प्रज्वलनं ताम्रसितहरितशवलानाम् ॥


  1. शान्तिप्रकरणोदिताम्-ति ।
  2. नित्यं शुकाभस्य इति अ, पु. पा ।