सामग्री पर जाएँ

पृष्ठम्:अद्भुतसागरः.djvu/६३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२७
अश्वद्भुतावर्त्तः ।

 प्रशस्तकर्णाः स्निग्धाङ्गा रक्ताक्षा विजयोत्सुकाः ॥
 ह्रेषन्ते तुरगा यत्र तत्रापि विजवं ध्रुवम् ।
 त्रिषु स्थानेषु संक्रम्य शब्दमेव प्रकुर्वतः ॥
 सुवृष्टिं सुभिक्षं च विजयं चैव निर्दिशेत् ।
 खादन्तस्त्वतिह्रेषन्ते न च विस्फोटयन्त्युत ॥
 द्वार्याचार्यस्य वेद्यां वा सर्वासिद्धिं च निर्दिशेत् ।
 ग्रसित्वा खादनं चैव सतृणं चैव ह्रेषते ॥
 भूमिलाभं सुवृष्टिं च राज्ञश्च विजयं विदुः ।

विष्णुधर्मोत्तरे ।

 ह्रेषतस्तुरगान् ज्ञात्वा घोषो वा वाजिनो भवेत् ।
 तदा विजयमाख्याति स्वामिनो ध्रुवमेव तु ॥

शालिहोत्रः ।

 शिरसा तालुकण्ठे च अनुक्रोशं शनैः शनैः ।
 सिञ्जितं तद्विजानीयाद्ग्रासार्थेनानिमित्ततः ॥

ग्रासार्थेनानिमित्तत्वादफलं तदित्यर्थः ।

 चित्रसत्त्वा यदाश्वाश्च नाभिनन्दन्ति खादनम् ।
 परस्परेण ह्रेषन्ते विद्यादग्निभयं ध्रुवम् ॥
 शुष्केन्धनं च काष्ठं वा खादन्तो यत्र[]ह्रेषते ।
 आदित्यं य उदीक्षन्ते विद्यादशनिजं भयम् ॥
 स्तम्भयित्वा तु लाङ्गूलं वीक्षमाणोऽपि ह्रेषते ।
 विजृम्भमाणो बहुशो वग्निना भयमादिशेत् ॥
 यदा स्थानगतोऽन्योन्यं ह्रेषमाणो ह्युदीक्षते ।
 स्वेदमानः पुरीषेण सद्यो रोगं विनिर्दिशेत् ॥


  1. ह्रेषन्ते इत्यत्र ह्रेषते इत्यसाधु पाठः ।