पृष्ठम्:अद्भुतसागरः.djvu/६३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२६
अद्भुतसागरे ।

 उभे पार्श्वे प्रकीर्यन्ते बालास्तु विमुखीकृताः ।
 महाभयं भवेत् तत्र शब्दे बिटबिटायिते ॥
 आकिरन्ति भयादश्वा बालान् स्निग्धमृदुप्रभान् ।
 चक्रवच्च प्रदृश्यन्ते निःशब्दाश्च भवन्ति च ॥
 विजयं चार्थसिद्धिं च निर्दिशन्ति तुरङ्गमाः ।
 प्रहृष्टानां प्रकिरणं घर्मार्त्तानां च वाजिनाम् ॥
 स्नातानां च विकीर्यन्ते न ते ग्राह्या निमित्ततः ।

अथ ह्रेषितम् । तत्र पराशरः ।

 स्निग्धगम्भीरह्रेषं जयाय ।

बृहद्यात्रायां वराहः ।

क्रौञ्चवद्रिपुवधाय ह्रेषितं ग्रीवया त्वचलया च सोन्मुखम् ।
स्निग्धमुच्चमनुनादि हृष्टवद्ग्रासरुद्धवदनैश्च वाजिभिः ॥
पूर्णपात्रदधिविप्रदेवतागन्धपुष्पफलकाञ्चनानि वा ।
द्रव्यमिष्टमथ वा परं भवेद्ध्रेषतां यदि समीपतो जयः ॥

शालिहोत्रः ।

 विप्रान् सुमनसो वह्निं कुमारीं पूर्णभाजनम् ।
 अश्वा दृष्ट्वाऽभिह्रेषन्ते विजयं तत्र निर्दिशेत् ॥
 दिवाकरं वीक्षमाणो जृम्भमाणः प्रह्रेषते ।
 संग्रामं निर्दिशेत् तत्र भर्त्तुश्च विजयं भवेत् ॥
 तुरगस्तु यदा व्यूहे ध्वजाग्रं वीक्ष्य ह्रेषते।
 हृष्टः स्वकर्णौ विन्यस्य नान्यं संप्रेक्षते हयः ॥
 क्षिप्रं तु संहरत्येतज्जयो ह्येषां प्रदृश्यते ।
 अनुरक्ताश्च ह्रेषन्ते युगपच्च यदा हयाः ॥
 संग्रामं निर्दिशेत् तत्र विजयं चापि स्वामिनः ।