पृष्ठम्:अद्भुतसागरः.djvu/६३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२५
अश्वाद्भुतावर्त्तः ।

बृहद्यात्रायां वराहः ।

अतीव ह्रेषन्ति किरन्ति बालान् निद्रारता वा प्रवदन्ति यात्राम् ।
रोमत्यजो दीनखरस्वराश्च पांशून् ग्रसन्तश्च भयाय दृष्टाः ॥

सुन्दरकाण्डे रावणवधनिमित्तम् ।

 "दीना अश्वाः प्रह्रेषन्ति न च ग्रासाभिनन्दिनः"[१]

भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "ध्यायन्तः प्रकिरन्तश्च व्याला वेपथुसंयुताः ।
 दीनास्तुरङ्गमाः सर्वे........."[२]

भागवते कृष्णोत्क्रान्तिनिमित्तम् ।

 "वाहाश्च पुरुषव्याघ्र लक्ष्यन्ते वदतो मम"[३]

अथ पुच्छप्रकरणम् । तत्र शालिहोत्रः ।

 दक्षिणेन तु मार्गेण बालान् प्रकिरते यदा ।
 बलिनोऽभ्यन्तराद्धीमान् बाह्यानां च पराभवम् ॥
 वामार्धेन प्रकीर्यन्ते बाला अश्वस्य नित्यशः ।
 प्रवासं तत्र जानीयाच्छीघ्रं चैव निवर्त्तनम् ॥
 सर्वतः प्रकिरन्तश्च यदा बालानभीक्ष्णशः ।
 चिरं प्रवासं जानीयात् कार्यस्य साधनं तथा ॥
 चक्रवद्यत्र बालानि प्रकिरन्ति तुरङ्गमाः ।
 अन्त्यत्र बलीयांसो मध्यानां च पराजयः ॥

वाह्यमाने तु विशेषः ।

 बालार्धं दक्षिणं यत्र वाह्यतां विप्रकीर्यते ।
 हयानां च जयं प्राहुर्बहुश्रियं च निर्दिशेत् ॥
 अथ बालाः प्रकीर्यन्तं स्नानमात्रस्य वाजिनः ।
 अश्वारोहाः सहायैस्तु अध्वानं तु प्रपेदिरे ।


  1. वाल्मीकीये नोपलभ्यते ।
  2. ३ अ. ४५ श्लो. ।
  3. श्रीमद्भागवते नोपलभ्यते ।