पृष्ठम्:अद्भुतसागरः.djvu/६२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१५
गजाद्भुतावर्त्तः ।

 अस्मिन् पक्षे प्रपतने पार्थिवस्यादिशेज्जयम् ।
 सुवृष्टिं च सुभिक्षं च शत्रूणां च पराभवम् ॥
 उद्भ्रम्य पूर्वपक्षेण दक्षिणेन पतेद्यदि ।
 अवाक्शिरा गजो भूत्वा राष्ट्रवृद्धिं तदाऽऽदिशेत् ॥
 अथ वा स्निग्धमेघाभः स्नात्वा पीत्वा च वारणः ।
 जलावगाहे म्रियते सुवृष्टिं तत्र निर्दिशेत् ॥
 पश्चार्धेन विभागेन निषीदति यदि द्विपः ।
 सुभिक्षं तेन नागानामादिशेद्ग्रामवासिनाम् ॥
 अनाहे म्रियते नित्यं सुभिक्षमभिनिर्दिशेत् ।
 स्तम्भे निवारितो नागः स्तम्भे चैव निषीदति ॥
 तत्रैव त्यजति प्राणान् विजयं तेन निर्दिशेत् ।
 शालां प्रदक्षिणीकृत्य कुञ्जरो म्रियते यदि ॥
 तदा समर्घतां वृष्टिं प्राप्नुयात् स नराधिपः ।
 हस्त्यागारस्य च स्थाने द्वारस्याभिमुखस्य चेत् ॥
 अन्यैश्च वाहनैश्चैव पार्थिवैः स तु वर्धते ।
 पूर्वतः स्तम्भमाश्लिष्य स्वस्थाने यस्तु सीदति ॥
 वसुधाभिमुखो हस्ती भूलाभं तेन निर्दिशेत् ।
 तत्रैव शिरसा पूर्वं भूमिगं वा म्रियेत चेत् ॥
 नृपस्य वर्धते सैन्यं धनं चैवास्य मन्त्रिणा ।
 नागयानमथागम्य वारणो म्रियते यदि ॥
 करेणादाय सलिलं स्रवत्यक्षावुभावपि ।
 दिशः सर्वाश्च वीक्ष्याथ तोयं पिबति चेद्गजः ॥
 पीत्वा चोपरि मातङ्गः क्षिपेत् दक्षिणपश्चिमम् ।