पृष्ठम्:अद्भुतसागरः.djvu/६०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९९
गजाद्भुतावर्त्तः ।

 दैवपीडा निमित्ताद्वा गजदन्तव्यथा भवेत् ॥
 इत्येषां दन्तभङ्गानामुत्पत्तिः समुदाहृता ।
 अत ऊर्ध्वं समासेन भङ्गयोनिः प्रवक्ष्यते ॥
 सकलापगमो भङ्गः शौषिर्यं दन्तुराननम् ।
 चलनं जर्जरत्वं च पाटनं च तथा भवेत् ॥
 इति सप्तविधा योनिर्भङ्गानां समुदाहृता ।
 मूलमध्याप्रभङ्गानां वक्ष्यते कालसंग्रहः ॥
 मूले त्रैमासिको ज्ञेयो मध्ये षाण्मासिको भवेत् ।
 ऊर्ध्वं संवत्सरादग्रे भङ्गानां कालसंग्रहः ॥
 समं च विषमं चैव भङ्गसंस्थानमिष्यते ।
 छेदतुल्यं समं विद्यादतुल्यं विषमं भवेत् ॥
 अतः परं प्रवक्ष्यामि फलयोगं शुभेतरम् ।
 उपरिष्टात् तथा चान्तः समो भङ्गश्च शोभनः ॥
 यश्च पुण्ये भवेद्देशे पुण्यभङ्गो महाफलः ।
 निपतेयुर्यदा दन्ताच्छुल्बान्याजौ तु दन्तिनः ॥
 शुभं फलं तदा विद्यान्नृपतेः समुस्थितम् ।
 विषाणाभ्यन्तरे शुल्बमुपरिष्टात् तथैव च ॥
 पतेद्यातुश्च वृद्ध्यर्थं नृपतेश्चार्थसिद्धये ।
 उद्योगे पतिते शुल्बे दन्ताभ्यन्तरतो जयः ॥
 उत्तरे सैन्यवृद्धिः स्यात् सुहृद्भिश्च समागमः ।
 दन्तस्याभ्यन्तराद्भ्रष्टं गजबाहुल्यमादिशेत् ॥
 तत्रोपरिष्टाच्छकलं हन्ति शत्रूँश्चिरोत्थितान् ।
 विषाणाभ्यन्तरे भागे बाहुपर्यपि चोत्थितान् ॥