नीराजयित्वा तां रात्रौ धेनुकां कृतकौतुकाम् ॥
अथैनां हस्तिवन्नीत्वा शत्रुपक्षे विमोक्षयेत् ।
करोति पीडां तत्रापि शत्रोर्वनगताऽपि वा ॥
इत्येवमेनां कुर्वीत शत्रोर्वननिवासिनीम् ।
तां विसृज्य बलिं होमानुपहाराँश्च कारयेत् ॥
अन्यैश्च पेशलैर्विप्रान् दक्षिणाभिश्च तर्पयेत् ।
अथ वा पूर्ववत् कृत्वा शान्तिं तप्तकटद्वयाम् ॥
सुवर्णेन सुतप्तेन वनमेव प्रधावयेत् ।
अथ गजदन्तभङ्गफलम् । तत्र बृहद्यात्रायां वराहः ।
दक्षिणे शुभमतीव शोभनं पापमेव च विरुद्धमन्यतः ।
याप्यता भवति तद्विपर्यये विस्तरोऽथ मनिभिः प्रकीर्त्तितः ॥
मूलमध्यदशनाग्रसंस्थिता देवदैत्यमनुजाः क्रमात् ततः ।
स्फीतमध्यपरिपेलवं फलं शीघ्रमध्यचिरकालसम्भवम् ॥
सौम्यलग्नतिथिभादिभिः फलं वर्धते शुभमतोऽन्यथा भवेत् ।
क्षीरमिष्टफलपुष्पपादपेष्वापगातटविघट्टनेन वा ॥
वाममध्यरदभङ्गखण्डनं शत्रुनाशकृदतोऽन्यथा परम् ।
विष्णुधर्मोत्तरे ।
शुभे काले शुभे देशे निम्नगायाश्च रोधसि ।
शुभे द्रुमे वा भवति भूभर्त्तुर्विजयावहः ॥
दन्तभङ्ग इति सम्बन्धः ।
राजपुत्रः ।
गजस्याभिघ्नतो द्रव्यं स्थावरं जङ्गमं तथा ।
दन्तव्यथा यदा च स्याद्दन्तैरभिहतस्य वा ॥
व्याधिना वाऽभिभतस्य जरया पीडितस्य वा ।