पृष्ठम्:अद्भुतसागरः.djvu/६०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६००
अद्भुतसागरे ।

 संशत्यसंशयं राज्ञः कोशवृद्धिमुपस्थिताम् ।
 आर्द्रकूलाभिघातेन विषाणं यदि भज्यते ॥
 सुवृद्धिं निर्दिशेद्विद्वाँस्तस्मिन्नुत्पातदर्शने ।
 दन्ताग्रं पतितं भूमौ जले वा यदि दृश्यते ॥
 अथ यातुर्विजानीयादर्थलाभमुपस्थितम् ।
 यदि भद्रेण पापस्य दम्तो भवति दन्तिनः ॥
 ततः क्षेमं सुवृष्टिं न सुभिक्षं चैव निर्दिशेत् ।
 प्रभिन्नेनाप्रभिन्नस्य विषाणं यदि भज्यते ॥
 सुभिक्षं न सुवृष्टिं च तस्मिन् विद्यान्निर्दशनम् ।
 क्रीडितः सलिले दन्तो यदि नागस्य भज्यते ॥
 तत्र चेत् पतितो दृष्टः सुवृष्टिमभिनिर्दिशेत् ।
 प्रदक्षिणावर्त्तनिभो दन्तभङ्गो यदा भवेत् ॥
 भूपतेः पुत्रलाभाय तन्निमित्तं ततो भवेत् ।
 दन्तिनो मध्यभागाच्च करिण्याः शोणितं स्रवेत् ॥
 पुत्रलाभाय नृपतेः तदपि स्यान्निदर्शनम् ।
 पुष्पिते फलिते वाऽपि सक्षीरे च महीरुहे ॥
 यदि दन्तो भवेद्भग्नः सोऽर्थलाभकरः स्मृतः ।
 विषाणाभ्यन्तराद्भङ्गो नृपस्त्रीलाभमादिशेत् ॥
 उपरिष्टाद्गुरुस्त्रीणां धनधान्यप्रदो भवेत् ।
 भास्करोदयवेलायां विषाणं यदि भज्यते ॥
 पुत्रलाभाय नृपतेस्तन्निमित्तं तदा भवेत् ।
 ज्येष्ठायां वरुणे चैव मूले चेद्भङ्गमाप्नुयात् ॥
 विशाखयोः पुनर्वस्वो रोहिण्यामुत्तरेषु च ।