पृष्ठम्:अद्भुतसागरः.djvu/६०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९५
गजाद्भुतावर्त्तः ।

 त्रिवर्षस्तु यदा मत्तो मातङ्गो यदि दृश्यते ॥
 क्षत्रियाणां तथा विद्याद्व्यसनं प्रत्युपस्थितम् ।
 प्रभेदो वारणस्याथ चतुर्वर्षस्य निन्दितः ॥
 अमात्यास्तत्र हन्यन्ते म्रियन्ते च पुरोहिताः ।
 पञ्चवर्षस्य नागस्य प्रभेदो निन्दितो भृशम् ॥
 निर्दिशेच्छास्त्रवित् तत्र परपक्षभयं महत् ।
 षड्वर्षस्याथ नागस्य मदकालो न विद्यते ॥
 यदि माद्यति चेन्नागः स एव म्रियते ध्रुवम् ।
 देशे तु यस्मिन् दृश्येत सप्तवर्षो मदान्वितः ॥
 व्याधिना मरणं तत्र भूमिपालस्य निर्दिशेत् ।
 महादोषप्रयुक्तं च अष्टवर्षप्रभेदनम् ॥
 कोशो मन्त्री सहायश्च परं चैव विनश्यति ।
 निन्दितं तु मदं विद्यान्नववर्षस्य हस्तिनः ॥
 अत्यर्थं स्याद्भयं घोरं शस्त्रसम्मर्द एव च ।
 सुमहाँस्तु भवेद्वेषो दशवर्षप्रभेदने ॥
 सद्यस्तु मरणं विद्यान्नृपतेः प्रत्युपस्थितम् ।
 द्वितीयायां दशायां तु वारणो यदि माद्यति ॥
 पञ्चवर्षाण्यनावृष्टिं तस्मिन् देशे विनिर्दिशेत् ।
 दिवा वा यदि वा रात्रौ प्रभिन्नो दृश्यते यदा ॥
 निःश्रेयस्तस्य प्रस्थानं तत्क्षणे चैव हस्तिना ।
 कारयेत् तत्र शान्तिं च ब्राह्मणाँश्चापि तर्पयेत् ॥
 उत्पातप्रतिघातार्थमिमं विधिमुपाचरेत् ।
 प्रतिघातस्त निर्दिष्टः प्रायश्चित्तस्य कारणात् ॥