पृष्ठम्:अद्भुतसागरः.djvu/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
सूर्याद्भुतावर्त्तः ।

 यस्मिन् यस्मिन् देशे दर्शनमायान्ति सूर्यविम्बस्थाः ।
 तस्मिन् तस्मिन् व्यसनं महीपतीनां*[१]न संदेहः ।
 क्षुत्प्रम्लानशरीरा मुनयोऽप्युत्सृष्टधर्मसच्चरिताः ॥
 निर्मासबालहस्ताः कृच्छ्रेण हि यान्ति परदेशम् ।
 तस्करविलुप्तवित्ताः प्रदीर्घनिःश्वासमुकुलिताक्षिपुटाः ॥
 सन्तः सन्नशरीराः शोकोद्भववाष्परुद्धदृशः ।
 क्षामाजुगुप्समानाः स्वनृपतिपरचक्रपीडिता मनुजाः ॥
 स्वनृपतिचरितं कर्म न पुराकृतं प्रब्रुवन्त्यन्ये ।
 गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः ॥
 सरितो यान्ति तनुत्वं क्वचित् क्वचिज्जायते शस्यम् ।

अथ तेषां विशेषफलं गार्गीये ।

 ध्वाङ्क्षो वा कृष्णशङ्कुर्वा कबन्धो वाऽर्कमण्डले ।
 दृश्यते यत्र तत्राशु भूमिपालो विनश्यति ॥

आग्नेयपुराणे हिरण्यकशिपुवधनिमित्तम् ।

 पूर्वापरासु सन्ध्यासु कबन्धो दृश्यते रवौ ।

मौशलपर्वणि वृष्णिवंशक्षयनिमित्तम् ।

 "उदयास्तमने तस्यां पूर्यां नित्यं दिवाकरः ।
 व्यदृश्यतासकृत् पुम्भिः कबन्धैः परिवारितः”+[२]
 “आदित्यो रजसा राजन् समवच्छन्नमण्डलः ।
 विरश्मिरुदये नित्यं कबन्धैः समदृश्यत" [३]

गार्गीये ।

 अनोधनुःक्षेत्ररूपा नृपवित्तक्षयावहाः ।

अनः शकट: । तद्रूपाः धनुःक्षेत्ररूपाश्च ।


  1. *परिज्ञेयम् इति अ ।
  2. +२ अध्याये १३ श्लो. ।
  3. ८८ अयं श्लोको मुद्रितमहाभारतोक्तस्थाने नोपलभ्यते ।